SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ तत्र सद्योऽपि समवसरणे सुरनिर्मिते । सर्वीयो भगवानासाश्चक्रे चक्रे च देशनाम् ॥ ४१७ ॥ गम्भीरया गिरा भर्तुर्विदधानस्य देशनाम् । अनूवादेव स गिरिगह्वरोत्थैः प्रतिस्वनैः॥ ४१८॥ वृष्टेरिव पयोवाहः, प्रावृषि त्रिजगत्पतिः । गतायामथ पौरुष्यां, व्यरंसीद् देशनाविधेः॥ ४१९ ॥ उत्थाय च ततः स्थानान्मध्यप्राकारमण्डले । देवच्छन्दे देवदेवो, न्यषीदद् देवनिर्मिते ॥ ४२०॥ ततश्च स्वामिनः पादपीठे गणधराग्रणीः । श्रीपुण्डरीको न्यपदत , सम्राजो युवराडिव ॥ ४२१ ॥ तथैव हि निषेदुष्यां, सभायां गणभृद्वरः । भगवल्लीलया धर्मदेशनां विदधेतराम् ।। ४२२ ॥ सोऽपि द्वितीयपौरुष्यां, पारयामास देशनाम् । अवश्यायसुधासेकं, समीरण इव प्रेगे ॥ ४२३ ॥ एवं सत्त्वोपकाराय, कुर्वाणो धर्मदेशनाम् । कञ्चित् कालं तत्र तस्थावष्टापद इव प्रभुः॥४२४ ॥ अन्यतश्च प्रतिष्ठासुरपरेबुर्जगद्गुरुः । गणभृत्पुण्डरीकं तं, पुण्डरीकं समादिशत् ॥ ४२५॥ . महामुने! प्रयास्यामो, विहत्तुं वयमन्यतः । गिरौ तिष्ठ त्वमत्रैव, मुनिकोटिभिरावृतः॥४२६ ॥ अत्र क्षेत्रानुभावेन, भवतोऽचिरकालतः । ज्ञानं सपरिवारस्योत्पत्स्यते केवलं खलु ॥ ४२७॥ इहैव शैले शैलेशीध्यानमासेदुषस्तव । परिवारसमेतस्याऽचिरान्मोक्षो भविष्यति ॥ ४२८ ॥ तथेति स्वामिनो वाचं, प्रतिपद्य प्रणम्य च । तत्रैव सोऽस्थाद् गणभृत् , सहैव गणकोटिभिः ॥ ४२९ ॥ तीरगर्तेषु रत्नौघमुद्वेल इव वारिधिः । मुक्त्वा तं तत्र नाथोऽगादन्यतः सपरिच्छदः॥ ४३०॥ पुण्डरीकः स्थितस्तत्र, पर्वते मुनिभिः समम् । उदयाद्रितटे सार्द्धमौखि निशाकरः ॥ ४३१ ॥ १सर्वहितकारी ।२ विरामं प्राप्तवान् । ३ मण्डलेश्वरस्य । ४ हिमामृतसिञ्चनम् । ५ प्रातःकाले । ६ प्रस्थातुमिच्छुः। ७ नक्षत्रैः। Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy