SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१६३॥ उद्बुद्धसूचिच्याजेन, सञ्जातपलितैरिव । जरद्भिः केतकीवृक्षरशून्याधित्यकाभुवम् ॥ ४०३ ॥ स्थाने स्थाने सिन्दुवारैः, श्रीखण्डद्रवपाण्डुभिः । कृतसर्वाङ्गमङ्गल्यपुण्ड्रावलिमिवोच्चकैः ॥ ४०४ ॥ शाखास्थितगोलाङ्गललाङ्गुलजटिलीकृतैः । चिञ्चाद्रुमैरनुकृतप्लक्षन्यग्रोधपादपम् ॥ ४०५॥ सर्गः अद्भुतवपरीणाहसम्पदा मुदितैरिख । नित्यं कण्टकिलफलैः, पनसैरुपशोभितम् ॥४०६॥ ऋषभजिनश्लेष्मातकैरारात्रितमःसब्रह्मचारिभिः । अञ्जनाचलचूलाभिराहताभिरिवाऽङ्कितम् ॥ ४०७॥ है भरतचक्रिकिंशुकैः शुकचञ्चवदारक्तकुसुमर्द्धिभिः । शोभमानं महानागं, कुङ्कुमस्थासकैरिव ॥४०८॥ चरितम् । कापि द्राक्षाभवं वापि, खार्जूरं क्वापि तालजम् । मध्वापिबद्भिराबद्धगोष्ठीकं शबरीजनैः ॥ ४०९॥ अभेद्यैरककिरणेषणामस्खलतामपि । सन्नाहमिव बिभ्राणं, ताम्बूलीवनमण्डपैः ॥४१०॥ शत्रुञ्जयतीथे आर्द्राकुराखाव्सुहितैर्मृगमण्डलैः । आवध्यमानरोमन्थं, महाविटपिनां तले ॥ ४११॥ ऋषभप्रभुः। सहकारफलास्वादमग्नचऋपुटैश्विरम् । शुकैर्निरन्तरर्जात्यवेड्यैरिव मण्डितम् ॥ ४१२॥ केतकी-चम्पका-ऽशोक-कदम्ब-बकुलोद्भवैः । परागैः पवनोद्भूतै, रजस्खलशिलातलम् ॥ ४१३ ॥ पान्थसार्थास्फाल्यमाननालिकेरीफलाम्भसा । परितः पङ्किलीभूतोपत्येकातटभूतलम् ॥ ४१४ ॥ भद्रशालप्रभृतीनां, मध्याद् वैशाल्यशालिना । वनेनैकतमेनेव, तरुखण्डेन मण्डितम् ॥ ४१५॥ पञ्चाशद्योजनं मूले, शिखरे दशयोजनम् । तमष्टयोजनोत्सेधमारुरोह गिरिं प्रभुः॥ ४१६ ॥ ॥१६३॥ [एकविंशत्या कुलकम् ] | अशून्यपर्वतोपरिसमभूमिकम् । २ वृक्षविशेपैः।३ कपयः । ४ अम्लिकावृक्षैः । ५विसारः। अमावास्यारात्रितमःसमानैः । ७महागजम् । * °दमुदितैर्मू सं १॥ आबध्यमानचर्वितचर्वणम् । ९ आसन्नभूमिः। 10 विशालत्वशोभिना। ११ अष्टयोजनोच्छ्रितम् । Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy