SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते सगे: ॥१६४॥ ऋषभजिनभरतचक्रिचरितम् । ततः परमसंवेगावेगान्मधुरया गिरा । पुण्डरीको गणधरः, श्रमणानित्यभाषत ॥ ४३२॥ गिरिः क्षेत्रप्रभावेण, सोऽयं सिद्धिनिबन्धनम् । जिगीषूणां दुर्गमिव, सीमान्तावनिसाधकम् ॥ ४३३ ॥ कार्या संलेखना मुक्तेः, साधनान्तरमप्यहो! । भवति द्विविधा सा तु, द्रव्यभावविशेषतः ॥४३४॥ सर्वोन्मादमहारोगनिदानानां समन्ततः । शोषणं सर्वधातूनां, द्रव्यसंलेखना मता ॥ ४३५॥ यो रागद्वेषमोहानां, कषायाणां च सर्वतः । नैसर्गिकद्विषां छेदो, भावसंलेखना तु सा ॥ ४३६ ॥ इत्युदित्वा पुण्डरीकः, समं श्रमणकोटिभिः । सर्वानालोचयामासाऽतीचारान् सूक्ष्मबादरान् ॥ ४३७॥ महाव्रतारोपणं च, भृयश्चक्रेऽतिशुद्धये । क्षौमस्य क्षालनं द्विविद्यतिनैर्मल्यकारणम् ॥ ४३८ ॥ जीवाः क्षाम्यन्तु सर्वे मे, तेषां च क्षान्तवानहम् । मैत्री मे सर्वभूतेषु, वैरं मम न केनचित् ॥ ४३९ ॥ इत्युक्त्वा भवचरम, निराकारं सुदुष्करम् । प्रतिपेदे सोऽनशनं, समस्तश्रमणैः समम् ॥ ४४०॥ क्षपकश्रेणिमारूढस्याऽत्रुट्यनभितोऽपि हि । घातीनि कर्माणि तस्यौजखिनो जीर्णरज्जुवत् ॥ ४४१॥ साधूनां कोटिसङ्खयानां, तेषामपि हि तुत्रुटुः । सद्यो घातीनि कर्माणि, सर्वसाधारणं तपः॥४४२॥ मासान्ते चैत्रराकायां, पुण्डरीकस्य केवलम् । ज्ञानं बभूव प्रथम, पश्चात् तेषां महात्मनाम् ॥ ४४३॥ शुक्लध्याने स्थितास्तूर्ये, निर्योगे ते च योगिनः । प्रक्षीणाशेषकर्माणो, निर्वाणपदवीं ययुः ॥ ४४४ ॥ समागत्य दिवो देवा, मरुदेव्या इव क्षणात् । भक्त्या विदधिरे तेषां, निर्वाणगमनोत्सवम् ॥ ४४५॥ भगवानृषभस्वामी, प्रथमस्तीर्थकुद् यथा । तथाऽभूत् प्रथमं तीर्थ, शत्रुञ्जयगिरिस्तदा ॥ ४४६॥ १ वस्त्रस्य । २ चैत्रपूर्णिमायाम् । ३ पारे । द्रव्य-भावसंलेखना। पुण्डरीकगणभृतो निर्वाणम् । ॥१६॥ Jain Education inte For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy