________________
राज्यलक्ष्मीरमावास्यारात्रिवद् भूरितामसा । उज्झाञ्चकार तृणवत, तातोऽप्येनां कुतोऽन्यथा ? ॥७३४॥ तस्य तातस्य पुत्रेण, सताऽप्येषा मया चिरात् । दुर्वृत्तत्वेन विज्ञाता, ज्ञास्यत्यन्यः कथं ह्यमूम् ? ॥७३५॥ सर्वथा त्यजनीयेयमिति निश्चित्य चेतसि । महामना बाहुबलिरित्यूचे चक्रवर्त्तिनम् ॥ ७३६ ॥
तितिक्षस्व क्षमानाथ !, राज्यमात्रकृतेऽपि यत् । द्विषन्निव मया भ्रातरेवं त्वमसि खेदितः॥ ७३७ ॥ | महाभवहदेऽमुष्मिस्तन्तुपाशसहोदरैः । भ्रातृपुत्रकलत्रायै, राज्येन च कृतं मम ॥ ७३८ ॥ त्रिजगत्स्वामिनो विश्वाभयदानैकसत्रिणः । एष पान्थीभविष्यामि, पथि तातस्य सम्प्रति ॥ ७३९ ॥ इत्युदित्वा महासत्त्वः, सोऽग्रणीः शीघ्रकारिणाम् । तेनैव मुष्टिना मज़, उद्दधे तृणवत् कंचान् ॥ ७४०॥ साधु साध्विति सानन्दं, निगदन्तो दिवौकसः । बाहुबलेरुपरिष्टात् , पुष्पवृष्टिं वितेनिरे ॥ ७४१ ॥ सोऽप्येवं चिन्तयामास, प्रतिपन्नमहाव्रतः । किं तातपादपद्मान्तमहं गच्छामि सम्प्रति ? ॥ ७४२ ॥ नो वा यास्यामि पूर्वात्तव्रतानां ज्ञानशालिनाम् । मध्येऽनुजानामपि मे, यल्लघुत्वं भविष्यति ॥ ७४३ ॥ इहैव दग्ध्वा घातीनि, कर्माणि ध्यानवह्निना । अवाप्तकेवलज्ञानो, यास्यामि स्वामिपर्षदि ॥ ७४४ ॥ मनखी चिन्तयन्नेवं, प्रलम्बितभुजद्वयः । कायोत्सर्गेण तत्रैवाऽस्थाद् रत्नप्रतिमेव सः ॥ ७४५ ॥
भरतस्तं तथा दृष्ट्वा, विचार्य खं कुकर्म च । बभूव न्यश्चितग्रीवो, विविक्षुरिव मेदिनीम् ॥ ७४६ ॥ शान्तं रसं मूर्तमिव, भ्रातरं प्रणनाम सः । नेत्रयोरश्रुभिः कोष्णैः, कोपशेषमिवोत्सृजन् ॥ ७४७॥ भरतः प्रणमस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु सङ्क्रान्त्या, नानारूप इवाऽभवत् ॥ ७४८ ॥ १ तन्तुपाशसदृशैः। २ केशान् । ३ नम्रीभूतग्रीवः। ४ प्रवेष्टुमिच्छुः । ५ अधिकोपासनां विधातुमिच्छया।
Jain Education International
For Private & Personal use only
www.jainelibrary.org,