SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ चकृषुः शृङ्खलाजालं, सैन्याश्चक्रिभुजस्य ते । नेत्रीभूतमहिं मन्थगिरेरिव सुरासुराः॥ ५६५॥ गाढलग्नाः प्रलम्बासु, चक्रिदोःशृङ्खलासु ते । उत्तुङ्गशाखिशाखाग्रेष्विव शाखामृगा वभुः ॥५६६ ॥ इभानिवाऽदि भिन्दानान्, कर्षतः खं च सैनिकान् । कौतुकप्रेक्षणायोपेक्षाञ्चक्रे चक्रभृत् स्वयम् ॥५६७॥ हृद्यङ्गरागं चक्रेऽथ, चक्री तेनैव पाणिना । मालाबद्धघटीमालान्यायात् ते तु सहाऽपतन् ॥ ५६८॥ निरन्तरं लम्बमानैः, सैनिकैश्चक्रिणो भुजः। रराज खजूरतरुशाखा खजूंरकैरिव ॥ ५६९॥ हृष्यन्तः स्वामिनः स्थाना, सैन्यास्तद्वाहुशङ्खलाः । प्राकृतामिव दुःशङ्कामुज्झाञ्चक्रुः क्षणादपि ॥ ५७०॥ चक्रभृत् कुञ्जरारूढस्तदेव समराजिरम् । जग्राह प्राक्तनं भूयोऽप्युराहमिव गायनः ॥ ५७१ ॥ उभयोः सैन्ययोर्मध्ये, विपुलं विपुलातलम् । गङ्गायमुनयोरन्तर्वेदिदेश इवाऽऽबभौ ॥ ५७२॥ जगत्संहाररक्षातो, मुदिता मरुतस्ततः । आयुक्ता इव शनकैस्तत्रोप्महरन् रजः ॥५७३ ॥ गन्धाम्बुवृष्ट्या समवसरणोविमिवाऽभितः । तां मेदिनीमभ्यषिञ्चन्नुचितज्ञा दिवौकसः ॥ ५७४ ॥ मात्रिका मण्डलावन्यामिव तत्र रणावनौ । उन्मेषवन्त्यनिमिषाः, कुसुमानि विचिक्षिपुः ॥ ५७५ ॥ कुञ्जरादवतीर्याऽथ, तावुभौ राजकुञ्जरौ । कुञ्जराविव गर्जन्तौ, प्रविष्टौ समरावनिम् ।। ५७६ ॥ उभावपि महौजस्को, सर्पन्तौ लीलयापि हि । पदे पदेऽरोपयतां, कूर्मेन्द्रं प्राणसंशये ॥ ५७७ ॥ दृष्टियुद्धेन योद्धव्यं, प्रतिज्ञायेति तस्थतुः । सम्मुखावनिमेषाक्षौ, शक्रेशानाविवाऽपरौ ॥ ५७८ ॥ सम्मुखौ मुखमन्योऽन्यस्पेक्षतामरुणेक्षणौ । उभयत्र स्थितार्केन्दुसायाह्नगगनश्रियौ ॥ ५७९ ॥ १ मन्थनरज्जुभूतम् । २ मन्दराचलस्य । ३ कपयः । ४ बलेन । ५ पृथ्वीतलम् । ६ देवाः । ७ विकसितानि । ८ देवाः । Jain Education International For Private & Personal use only www.jainelibrary.org,
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy