SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ *नूनं गतं मुधा बाहुदण्डवीर्यमिदं च नः । अरण्यभववृक्षाणामिव प्रसवसौरभम् ॥ ५३५॥ क्लीबैः स्त्रीणामिवाऽस्त्राणामसाभिः सङ्ग्रहो मुधा । व्यधायि शस्त्राभ्यासश्च, शास्त्राभ्यासः शुकैरिव ॥५३६॥ इदं चाऽगृह्यताऽस्माभिः, पादातमपि निष्फलम् । कामशास्त्रपरिज्ञानमिव तापसदारकैः ॥ ५३७ ॥ . मुधैव कारिता माराभ्यासमेते मतङ्गजाः । वाजिनश्च श्रमजयमस्माभिर्हतबुद्धिभिः॥ ५३८॥ मुधा गर्जितमस्माभिर्वारिदैरिव शारदैः। महिपीभिरिवाऽमाभिर्विकटं च कटाक्षितम् ॥ ५३९ ॥ मुधा सन्नद्धमस्माभिः, सामग्रीदर्शकैरिख । तच्चाऽहङ्कारगर्भत्वमपूर्णे युद्धदोहदे ॥ ५४०॥ एवं विचिन्तयन्तस्ते, विषादविषगर्भिताः । समूत्काराः सफूत्कारा, इव सपा अपासृपन् ॥ ५४१॥ तत्कालं भरतेशोऽपि, क्षत्रव्रतमहाधनः । वामपासारयत् सेना, वेलामिव महार्णवः॥ ५४२ ॥ चक्रिणा सैनिकाः स्खेऽपसार्यमाणा महौजसा । एवमालोचयामासुर्वृन्दीभूय पदे पदे ॥ ५४३ ॥ खामिना कस्य मत्रेण, मत्रिव्याजेन वैरिणः। द्विबाहुमात्रकेणेव, द्वन्द्वयुद्धममन्यत ? ॥ ५४४ ॥ खामिना यो हि सङ्घामो, यद् भोजनमुदविता । पर्याप्तमेव तदहो, किं कृत्यं नस्ततः परम् ॥५४५॥ षदखण्डभरतक्षेत्रभृभुजां रणकर्मसु । कोपि नः किमपक्रान्तो, यन्निषिध्यामहे रणात् ॥५४६ ॥ युक्तं भृत्येषु नष्टेषु, विजितेषु हतेषु वा । युद्धं भर्तुर्नाऽन्यथा तु, विचित्रा हि रणे गतिः ॥ ५४७ ॥ 'स्वामिनः संशयं युद्धे, जातु शङ्कामहे न हि । विनैकं बाहुबलिनं, प्रतिपक्षो भवेद् यदि ॥ ५४८॥ उदग्रबाहुना बाहुबलिना सममाहवे । विजये संशयः पाकशासनस्यापि केऽपरे ? ॥ ५४९ ॥ * मन्ये ग आ, सं२॥ १ युद्धमनोरथे। २ तक्रेण । + अयं श्लोकः खं पुस्तके नोपलभ्यते ॥ ३ शत्रुः। ४ इन्द्रस्य । Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy