SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१३९॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । खतोऽपि द्वन्द्वयुद्धेच्छुः, किं पुनः प्रार्थितः सुरैः । स्वामी खाराजतुल्यौजाः, समराद्वो निषेधति ॥५२२॥ हस्तिमल्ल इबैकाङ्गमल्लो युष्माभिरेष तत् । युध्यमानः प्रेक्षणीयस्तटस्थैरमरैरिव ॥ ५२३ ॥ वालयित्वा स्थानश्वान् , कुञ्जरांश्च महौजसः । अपामत तद् यूयं, वक्रीभूता इव ग्रहाः ॥ ५२४ ॥ खड्गान् क्षिपत कोशेषु, करण्डेष्विव पन्नगान् । कुन्तान् केतूनिवोदस्तान् , मोचकान्तर्विमुञ्चत ॥ ५२५॥ मुद्रान् न्यञ्चतोदस्तान् , हस्तानिव महाद्विपाः । उत्तारयत कोदण्डान्मौवीं भालादिव ध्रुवम् ॥५२६॥ भूयोऽपि बाणधौ बाणं, निधत्ताऽर्थं निधानवत् । शल्यानि संवृणुत च, विद्युतो वारिदा इव ॥५२७॥ प्रतीहारगिरा वज्रनिर्घोषेणेव घूर्णिताः । सैनिका बाहुबलिनश्चेतस्येवं व्यचिन्तयन् ॥ ५२८ ॥ अहो ! रणाद् भाविनोऽपि, भीतैर्वाणिजकैरिव । भरतेश्वरसैन्येभ्यो, लब्धोत्कोचैरिवोच्चकैः ॥ ५२९ ॥ प्राग्जन्मवैरिभिरिवाऽकस्मादस्माकमागतैः । हा प्रभुं प्रार्थ्य विबुधै, रुद्धो युद्धोत्सवोऽधुना ॥५३०॥ [युग्मम् ] अग्रतो भाजनमित्र, भोजनाय निषेदुपाम् । पर्यङ्कतः सूनुरिव, लालनायोपसर्पताम् ॥ ५३१॥ आकर्षणीरजरिव, कूपान्निर्गच्छतामहो ! अहारि देवेनाऽस्माकमागतोऽपि रणोत्सवः ॥५३२॥ [युग्मम्] अन्यो भरततुल्यः कः, प्रतिपक्षो भविष्यति । स्वामिनो येन सङ्ग्रामे, भविष्यामोऽनृणा वयम् ॥५३३॥ मुधोपादायि दायादेखि स्तेयंकरखि । सौवासिनेयैरिव चाऽमाभिर्वाहुबलेर्धनम् ॥ ५३४ ॥ CRESEARNAGARIKAARC भरत-बाहुबलियुद्धम्। ॥१३९॥ इन्द्रतुल्यपराक्रमः। २ युद्धात् । ३ हस्तिश्रेष्ठः। ४ वक्रगतियुक्ताः। ५ कोशान्तः। ललाटात्। ८ 'लांच' इति लोके । ९ रणरहिताः। १० चौरैः। ११ चिरपितृगृहवासिनीस्त्रीपुत्रैः । नीचैः कुरुत ।। Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy