SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ तदेतद् भरतक्षेत्रवैभवं भरतेशितुः । हृतमेव मया वित्थोपेक्षितं ह्यनपेक्षया ॥ ५०७ ॥ मह्यमर्पयितुं कोशं, हस्त्यश्वादि यशोऽपि च । प्रतिभूभिरिवाऽऽनीतोऽमात्यैः स्वसदृशैरसौ ॥ ५०८ ॥ युद्धान्निषेधतैनं तद्, यद्यस्य हितकाभिणः । अयुध्यमानेनाऽन्येनाऽप्यहं युध्ये न जातुचित् ॥५०९॥ ____ ऊर्जितं तद् वचस्तस्य, पर्जन्यस्येव गर्जितम् । आकर्ण्य विस्मयोत्कर्णास्ते भूयोऽप्येवमभ्यधुः॥५१०॥ इतो जल्पन् युधे हेतुं, चक्री चक्राप्रवेशनम् । न शक्योऽनुत्तरीकृत्य, निरोढुं गुरुणाऽपि हि ॥ ५११॥ युध्यमानेन युध्येऽहमिति जल्पन भवानपि । युद्धान्निरोद्धं नियतं, शक्रेणापि न शक्यते ॥५१२॥ द्वयोरप्यृषभस्वामिदृढसंसर्गशालिनोः । द्वयोरपि महाबुद्ध्योर्द्वयोरपि विवेकिनोः ॥ ५१३ ॥ द्वयोरपि जगत्रात्रोद्वयोरपि दयावतोः । भाग्यक्षयेण जगतां, युद्धोत्पात उपस्थितः ॥ ५१४ ॥ [युग्मम्] तथापि प्रार्थ्यसे वीर!, प्रार्थनाकल्पपादप । उत्तमेनैव युद्धेन, युध्येथा माऽधमेन तु ॥५१५॥ अधमेन हि युद्धेन, युवयोरुग्रतेजसोः । भूयिष्ठलोकप्रलयादकाले प्रलयो भवेत् ॥ ५१६ ॥ दृष्टियुद्धादिभियुद्धेर्योद्धव्यं साधु तेषु हि । आत्मनो मानसिद्धिः स्याल्लोकानां प्रलयो न च ॥ ५१७ ॥ आमेति तस्मिन् वदति, नातिदूरे दिवौकसः । तस्थुष्टुं तयोयुद्धं, नगर्या नागरा इव ॥ ५१८ ॥ अथाऽऽज्ञया बाहुबलेः, प्रतीहारो गजस्थितः । गर्जन् गज इवोर्जस्त्रि, जगादेति स्वसैनिकान् ॥५१९।। भो भोः ! समस्तराजन्याश्चिरं चिन्तयतां हि वः । उपस्थितं स्वामिकार्यमभीष्टं पुत्रलाभवत् ॥ ५२०॥ परं वः खल्पपुण्यत्वाद् , देवैर्देवोऽयमर्थितः। भरतेन सह द्वन्द्वयुद्धहेतोर्महाभुजः॥ ५२१॥ १ जानीथ । २ प्रतिनिधिभिः। ३ मेघस्य । करक त्रिषाप्टे. २४ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy