SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन| भरतचक्रिचरितम्। ॥१३७॥ CACASSASSACREGAON प्रतिमल्लो द्विपन्नेव, जयाजयनिबन्धनम् । बाहुबलिस्त्वहमेव, जातभेदो विधेर्वशात् ॥ ४६२॥ निर्वादभीरुलजावान् , विवेकी विनयी सुधीः । पुरा तातमिवाऽमस्त, मां हि बाहुबलिः खलु ॥४६३॥ पष्टिं वर्षसहस्राणि, कृत्वा दिग्जयमागतः । तं वीक्षेऽन्यादृशमिव, भूयान् कालोन कारणम् ।। ४६४॥ ततोऽभिषेकवर्षेषु, द्वादशस्वपि मां न हि । आगाद् बाहुबलिस्तत्र, प्रमादस्तर्कितो मया ॥ ४६५॥ आह्वानाय मया दुते, प्रहितेऽप्येष नैति यत् । तय॑ते मत्रिणां मत्रदोषस्तत्रापि कारणम् ॥ ४६६ ॥ अहमप्याहयाम्येनं, न लोभान्न च कोपतः । किन्त्वन्तन विशेच्चक्रमेकस्मिन्नप्यनानते ॥ ४६७॥ न चक्ररत्नं नगरी, प्रविशत्येष मां न च । परस्परस्पर्द्धयेवेत्यनयोः सङ्कटेऽपतम् ॥ ४६८॥ स एकवारमायातु, मम भ्राता मनस्व्यपि । अन्योर्वीमपि गृह्णातु, मत्तः पूजामिवातिथिः॥ ४६९ ॥ विना चक्रप्रवेशं मे, नाऽन्यत् सङ्घामकारणम् । नतेनाऽप्यनतेनाऽपि, न मे मानोऽनुजन्मना ॥ ४७०॥ ____ अथोचिरे सुरा राजन् !, महत् सङ्घामकारणम् । अल्पेन कारणेनेक्, प्रवृत्तिर्न भवादृशाम् ॥ ४७१॥ उपेत्य बाहुबलिनं, बोधयामोऽधुना वयम् । युगक्षय इवाऽऽगच्छन् , रक्षणीयो जनक्षयः ॥ ४७२ ॥ भवानिव युधः सोऽपि, याच्चैः कारणान्तरम् । वदेत् तथापि युद्धेन, योद्धव्यमधमेन न ॥ ४७३॥ दृष्टि-वाग्बाहु-दण्डाद्यैर्युद्धेर्योद्धव्यमुत्तमैः । वधो निरपराधानां, गजादीनां यथा न हि ॥ ४७४ ॥ तथेति प्रतिपेदाने, चक्रवर्तिनि नाकिनः। द्वितीयस्मिन् बैले बाहुबलिराजानमभ्ययुः ॥ ४७५॥ अहो ! अधृष्यो मृाऽसौ, दृढावष्टम्भगर्भया । इत्यन्तर्विस्मयजुषस्ते तमेवं वभाषिरे ॥ ४७६ ॥ .. अननीभूते। २ सैन्ये । ३ धर्षितुमशक्यः । भरत-बाहु| बलियुद्धम् । ॥१३७॥ Jan Education International For Private & Personal use only Howw.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy