SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ PUSANTARI O S चिरं जय चिरं नन्द, वृषभस्वामिनन्दन! । जगन्नेत्रचकोराणामानन्दैकनिशाकर !॥ ४७७॥ अम्भोधिरिव मर्यादां, नोल्लङ्घन्यसि जातुचित् । विभेष्यवर्णवादाच, समरादिव कातरः॥ ४७८॥ निजसम्पत्स्वनुत्सेकी, परसम्पत्स्वमत्सरी । विनेता दुर्विनीतानां, विनीतश्च गुरुष्वपि ॥ ४७९ ॥ विश्वाभयकृतो देवस्याऽनुरूपस्त्वमात्मजः । उच्छेदायाऽपरस्यापि, नाभ्ययुक्था मनागपि ॥ ४८०॥ तत् किं ते भ्रातरि गुरावारम्भोऽयं भयङ्करः । त्वत्ता-सम्भाव्यते नैष, पञ्चत्वममृतादिव ॥ ४८१॥ इयत्यपि गते कार्य, न विनष्टं मनागपि । तद्रणारम्भसंरम्भ, खलमैत्रीमिव त्यज ॥ ४८२ ॥ सम्पयरयाद् वीरान , निवारय नरेश्वर ! । निजाज्ञया प्रसरतो, मन्त्रेणेव महोरगान् ॥ ४८३॥ भरते भ्रातरि गुरौ, गत्वा भव वशंवदः । एवं च श्लाघ्यसेऽत्यन्तं, शक्तो विनयभागिति ॥ ४८४॥ तदिदं भरतक्षेत्रं, पट्खण्डं भरतार्जितम् । मुख स्वोपार्जितमिव, युवयोहि किमन्तरम् ॥ ४८५॥ | - इत्युदित्वा विरतेषु, तेषु वृष्ट्वा घनेष्विव । एवं बाहुबलिः साऽऽह, सित्वा गम्भीरया गिरा ॥४८६॥ आवयोर्विग्रहे हेतुमज्ञात्वा परमार्थतः । निजस्वच्छतया यूयमेवं वदथ हे सुराः!॥ ४८७ ॥ तातभक्ताः सदा यूयमावां तातस्य चाऽऽत्मजौ । इति सम्बन्धतोऽप्युक्तं, युक्तं युष्माभिरीदृशम् ॥४८॥18 पुरा हि दीक्षासमये, तातोऽर्थिभ्यो हिरण्यवत् । विभज्य देशानसभ्यमदत्त भरताय च ॥ ४८९ ।। वयं सर्वेऽपि तिष्ठामः, सन्तुष्टाः स्वखनीवृता | धनमात्रकृते हन्त !, परदोहं करोति कः? ॥ ४९०॥ असन्तुष्टस्तु भरतो, जग्रसे भरतोदधौ । मत्स्यानिव महामत्स्यो, राज्यान्यखिलभृभुजाम् ॥ ४९१॥ 5 गर्वरहितः । २ नाभियोगमकुरुथाः । ३ मरणम् । ४ युद्धवेगात् । ७ निजहृदयनैर्मल्येन । ६ स्वस्वदेशेन । ७ मरतक्षेत्रसमुद्रे । For Private & Personal use only RECHE Jain Education Internal www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy