________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१३६॥
Jain Education Interna
१
प्रासं प्रासस्याऽसिमसेर्मुद्गरं मुद्गरस्य च । दण्डं दण्डस्य चाऽमर्षान्मेलयन्तो डुढौकिरे ॥ ४३४ ॥ तावन्नभसि सम्भ्रान्तास्त्रैलोक्योन्माथशङ्कया । उपर्युपरि गीर्वाणं, गीर्वाणाः समुपागमन् ॥ ४३५ ।। [ चतुर्भिः कलापकम् ] सङ्घर्षः कोऽयमार्षभ्योः, स्वकयोरिव हस्तयोः १ । इत्यामृशन्तस्ते प्रोचुरुभयोः सैनिकानिति ॥ ४३६ ॥ ऋषभखामिनोऽत्राऽऽज्ञा, योद्धव्यं केनचिन्न हि । युष्माकं स्वामिनौ यावद्, बोधयामो मनखिनौ ॥४३७॥ आज्ञया त्रिजगद्भर्त्तुरुभयेऽपि हि सैनिकाः । तथैव तस्थुस्ते सर्वेऽप्यालेख्य लिखिता इव ॥ ४३८ ॥ किममी बाहुबलिनः १, किं वा भरततः सुराः । एवं तु चिन्तयामासुः, सैनिकास्ते तथास्थिताः॥४३९॥ नव्यनश्यदहो ! कार्य, भद्रं लोकाय सम्प्रति । इति ब्रुवाणा गीर्वाणाश्चक्रिणं ययुरादितः ॥ ४४० ॥ दत्त्वा जयजयेत्याशीर्वादं देवाः प्रियंवदाः । युक्तियुक्तेन वचसा तं मत्रिण इवाऽवदन् ॥ ४४१ ॥ साधु षट्खण्ड भरतक्षेत्रे भूपास्त्वया जिताः । नृदेव ! देवराजेन, पूर्वदेवा इवाऽभितः ॥ ४४२ ॥ तवौजसा तेजसा च तेषु राजेन्द्र ! राजसु । मृगेषु शरभस्येव, प्रतिमल्लो न कोऽप्यभूत् ॥ ४४३ ॥ अपूर्यत रणश्रद्धा, तैर्नूनं भवतो नहि । हैयङ्गवीनश्रद्धेव, वारिकुम्भैर्विलोडितैः ॥ ४४४ ॥ द्वितीयेनाऽऽत्मनो भ्रात्रा, सहाऽऽरेभे त्वया ततः । युद्धमेतत् स्वहस्तेन, स्वहस्तस्येव ताडनम् ॥ ४४५ ॥ दोः कण्डूरेव ते राजंस्तद्रणे कारणं ध्रुवम् । गण्डकण्डूरिवेभस्य, महातरुनिघर्षणे ॥ ४४६ ॥ भुजक्रीडाऽपि युवयोर्जगतां प्रलयाय हि । वनभङ्गाय सम्फेटो, मत्तयोर्हि वनेभयोः ॥ ४४७ ॥ १ चित्रलिखिता इव । २ न विनष्टम् । ३ असुराः । ४ प्रतिस्पर्धी । ५ नवनीतश्रद्धा । ६ युद्धम् ।
For Private & Personal Use Only
प्रथमं पर्व
पञ्चमः सगः
ऋषभजिनभरतचक्रि
चरितम् ।
भरत-बाहुबलियुद्धम् ।
| ॥१३६॥
www.jainelibrary.org.