SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ COMPAGALOREIGNSCRE सन्नाह्याऽऽरुह्य केऽप्यश्वान् , परीक्षितुमवाहयन् । दुःशिक्षितो जडश्वाऽश्वः, शत्रवत्येव सादिनि ॥ ३३७॥ सन्नाहग्राहणे केऽपि, हेषमाणांस्तुरङ्गमान् । आनचुर्देववद् युद्धे, हेषा हि जयसूचिनी ॥ ३३८ ॥ लब्धावान् केऽप्यसन्नाहान् , सन्नाहान् विजहुर्निजान् । शौण्डीरदोष्णां समरेष्विदं हि पुरुषव्रतम् ॥३३९॥ अस्खलन् सञ्चरे|रे, रणे मत्स्य इवार्णवे । दर्शयेः कौशलमिति, शशासुः केपि सारथिम् ॥ ३४॥ पथिका इव पाथेयैरस्त्रैः केऽपि निजान् रथान् । समन्तात् पूरयामासुः, पश्यन्तः समरं चिरम् ॥३४१॥ दूरादात्मख्यापनाय, केपि वैतालिकानिव । उत्तम्भितखस्खचिह्नान , ध्वजस्तम्भान् दृढान् व्यधुः॥३४२॥ रथेष्वायोजयन् केपि, सुश्लिष्टयुगशालिषु । परसैन्यपयोराशिजलकान्तांस्तुरङ्गमान् ॥ ३४३॥ सारथिभ्यो द्रेढीयांसि, तनुत्राणानि केऽप्यदुः। रथाः सरथ्या अपि हि, निष्फलाः सारथिं विना ॥३४४॥ उद्दामलोहवलयश्रेणिसम्पर्ककर्कशान् । आनचुदन्तिनां दन्तान् , केचिनिजभुजानिव ॥ ३४५॥ करिष्वारोपयन् शारीः, पताकामालभारिणीः । केचिद् वासगृहाणीव, समेष्यन्त्या जयश्रियः ॥३४६॥ सद्यःस्फुटद्गण्डगजमदैर्मृगमदैरिव । जल्पन्तः शकुनमिति, तिलकान् केपि चक्रिरे ॥ ३४७॥ परेभमदगन्धाढ्यं, वायुमप्यसहिष्णवः । कैश्चिदप्यारुरुहिरे, मनोवद् दुर्धरा गजाः ॥३४८ ॥ सौवर्णान् ग्राहयामासुः, सर्वैः सर्वेऽपि सिन्धुरैः । समरोत्सवशृङ्गारचोलकानिव कङ्कटान् ॥ ३४९॥ उन्नालनीलनलिनीलीलया लोहमुद्गरान् । कुञ्जरैग्राहयामासुः, कराग्रेषु निषादिनः ॥ ३५०॥ १ शत्रुवदाचरति । २ अश्वशब्दः । ३ पराक्रमिभुजानाम् । ४ चारणान् । ५ दृढतमानि । ६ कवचानि । ७ अश्वसहिताः । ८ गजकवचान् । ९ कस्तूरीभिः । C RA त्रिषष्टि, २३ Jain Education International For Private & Personal use only कष्ट ww.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy