SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि शलाकापुरुषचरिते ॥१३२॥ Jain Education Intern आत्मानं मार्जयन्ति स्म, चन्दनोद्वर्त्तनैर्नवैः । महाभटाः सुरभिभिः स्वयशोभिरिवाऽमलैः ॥ ३२३ ॥ चक्रुर्मटा मार्गमदीर्ललाटेषु ललाटिकाः । आबद्ध मेचकपटवीरपट्टविडम्बिनीः ॥ ३२४ ॥ शस्त्राणि जाग्रतां भाविशस्त्राशस्त्रिकथाकृताम् । सैन्यद्वयेऽपि वीराणां, निद्रा भीतेव नाऽऽययौ ॥ ३२५ ॥ सैन्यद्वितयवीराणां प्रातर्युद्धाभिकाङ्क्षिणाम् । त्रियामा शतयामेव, कथञ्चिदपि सा ययौ ॥ ३२६ ॥ आर्षभ्योवीक्षितुमिव, रणक्रीडाकुतूहलम् । अथाऽऽरुरोह चण्डांशुरुदयाचलचूलिकाम् || ३२७ ॥ मन्दरक्षुब्धसङ्गुभ्यत्पयोधिपयसामिव । पुष्करावर्त्तमेघानामिव प्रलयजन्मनाम् || ३२८ ॥ दम्भोलिताड्यमानानामिव सानुमतां महान् । प्रणादो रणतूर्याणां सैन्ययोरुभयोरभृत् ॥ ३२९॥ [ युग्मम् ] उत्कर्णतालास्तत्कालं, वित्रेसुर्दितङ्गजाः । सभयभ्रान्तयादस्काचक्षुश्च पयोधयः ॥ ३३० ॥ गुहासु विविशुः क्रूराण्यपि सच्चानि सर्वतः । रन्धादपि हि रन्ध्रेषु, न्यलीयन्त महोरगाः ॥ ३३१ ॥ गण्डशैलीभवच्छृङ्गाः, शैलाश्च प्रचकम्पिरे । विभय सङ्कुचत्पादकण्ठं कमठराडपि ॥ ३३२ ॥ वामध्वंसतेव द्यौर्विदद्र इव मेदिनी । रणातोद्यप्रणादेन, तदा तेन प्रसर्पता ।। ३३३ ॥ [ चतुर्भिः कलापकम् ] राजदौवारिकेणेच, रणतूर्येण चालिताः । उभयोः सैन्ययोः सैन्याः, ससज्जुरथ संयते ॥ ३३४ ॥ रणोत्साहोच्छ्रसदेहात, त्रुट्यन्तीर्वर्म जालिकाः । भूयो भूयो नवनवास्ताः केऽपि समचारयन् ।। ३३५ ।। आरोचकितया श्वान केsप्यात्मना समनाहयन् । स्वतोऽपि ह्यधिकां रक्षां, भटाः कुर्वन्ति वाहने ||३३६ ॥ १ ललाटालङ्कारान् । २ कृष्णवस्त्रं बोध्यम् । ३ शस्त्राशस्त्रियुद्धकथाः कुर्वाणानाम् । ४ भयं प्राप्तः । ५ युद्धाय । ६ कवचजालिकाः । For Private & Personal Use Only प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत-बाहुबलि युद्धम् । ॥१३२॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy