SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भो भो ! भवद्भिर्भूयांसो, भृभुजो भुजदुर्मदाः । महामात्रैरिव व्याला, व्यधीयन्त वशंवदाः ॥३०८ ॥ वैताठ्याद्रिमतिक्रम्य, किराताश्च दुराक्रमाः। विक्रान्तै ढमाक्रान्ता, हन्त : देवैरिवाऽसुराः ॥३०९॥ जीयन्तां हन्त ते सर्वे, यतस्तेषु न कोऽप्यभृत् । अपि तक्षशिलाधीशपत्तिमात्रस्य सन्निभः॥३१०॥ एकोऽपि सोमः सैन्यानि, तूलानीव समीरणः । दिशो दिशि क्षेसुमलं, ज्येष्ठो बाहुबलेः सुतः॥३१॥ कनिष्ठो वयसा तस्याऽकनिष्ठो विक्रमेण तु । महारथः सिंहरथः, शत्रुसैन्यदवानलः ॥ ३१२ ॥ किश्च बाहुबलेः पुत्रपौत्रादिप्वपरेषु च । एकैकोऽक्षौहिणीमल्लः, कृतान्तस्यापि भीतये ॥३१३ ॥ सामन्ताद्याश्च ये तस्य, स्वामिभक्त्या बलेन च । तोल्यन्ते तेऽपि तैः सार्द्ध, प्रतिमानस्थिता इव ॥३१४॥ अन्यसैन्येऽग्रणीयदृग्, भवत्येको महाबलः । सर्वेऽपि तादृशाः सैन्याः, सैन्ये तस्य महौजसः ॥३१५ ॥ दूरे बाहुबलिस्तावत् , स महाबाहुराहवे । एतस्यैकोऽपि हि व्यूहो, दुःस्फोटो हन्त ! वज्रवत् ॥ ३१६ ॥ तयुद्धायाभिगच्छन्तं, सुषेणमनुगच्छत । प्रावृषेण्यं पयोवाहं, पौरस्त्यपवना इव ॥ ३१७ ॥ सुधोपमगिरा भर्तुरन्तस्ते पूरिता इव । स्फारीबभूवुर्वपुषः, पुलकेन समन्ततः ॥ ३१८ ॥ विसृष्टास्ते नरेन्द्रेण, जयश्रीणामिव स्वयम् । वरणं प्रतिवीराणां, कुर्वाणाः खगृहं ययुः ॥ ३१९ ॥ द्वयोरपि तदाऽऽर्षभ्योः , प्रसादामहार्णवम् । तितीर्षवो वीरवराः, ससज्जू रणकर्मणे ॥ ३२०॥ कृपाणचापतूणीरगदाशक्त्यादिकान्यथ । आनछुर्देवतानीव, खानि स्वान्यायुधानि ते ॥ ३२१॥ शस्त्राग्रे वादयामासुस्तूर्याण्युच्चैर्महाभटाः । तालं पूरयितुमिवोत्साहाच्चित्तस्य नृत्यतः॥३२२ ।। १ दुष्टगजाः । २ पराक्रमेण श्रेष्टः । ३ प्रतिविम्बस्थिता इव । ४ युद्धे। ५ सैन्यरचनाविशेषः । ६ मेघम् । ७ पूर्वदिक्पवनाः। Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy