SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते पञ्चमः सर्गः ॥१३॥ ऋषभजिनभरतचक्रिचरितम् । तत्र सैन्ये वीरमानी, काहलावादकोऽप्यभृत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहणे ॥ २९३ ॥ महामाण्डलिकच्छत्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ॥ २९४ ॥ ययौ बाहुबलिः पश्यन् , प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो महौजसः॥ २९५ ॥ भुवं भारैरनीकानां, जयतूर्यस्वैर्दिवम् । आस्फोटयदिवोदामैत्रजन् बाहुबलिः पथि ॥ २९६ ॥ खदेशसीम्नि दूरेऽपि, शीघ्र बाहुबलिययौ । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ॥२९७ ॥ गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिविराद् भरतेशितुः ॥२९८ ॥ प्रातयुद्धोत्सवायाऽथ, मागधैर्ऋषभात्मजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ॥ २९९ ॥ ____ अथ बाहुबलिनक्तं, राजकानुमतं सुतम् । चके सेनापति सिंहरथं सिंहमिवौजसा ॥३०॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । खयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ॥३०१॥ स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृष्टो, ययावावासमात्मनः ॥३०२॥ राजा युद्धार्थमादिश्याऽन्यानपि व्यसृजन्नृपान् । स्वयं रणार्थिनां तेषां, सत्कारः स्वामिशासनम् ॥३०३॥ ___ कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ ३०४॥ *सिद्धिमत्रमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ॥३०५॥ कुमारान् बद्धमुकुटान् , सामन्तानितरानपि । आहृय भरताधीशः, समरायैवमन्वशात् ॥ ३०६॥ सेनापतिः सुषेणोऽयं, रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे महौजसः!॥३०७॥ १ कांस्याख्यवाद्यविशेषः। २ रोहणाचले। ३ चारणैः। ४ रात्रौ । * सिद्धम सं१, खं ॥ भरत-बाहुबलियुद्धम् । ॥१३॥ Jan Education International For Private & Personal Use Only Twww.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy