SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ वेश्याजन इवाऽस्नेहे, तत्रापि स्नेहलः प्रभुः । एवं निगदतो नश्चेनिषेधति निषेधतु ॥ २५०॥ शत्रून् सर्वान् विजित्याऽन्तःप्रवेक्ष्यामीति संश्रवात् । निषेधिता कथं चक्रं, देवोऽद्यापि बहिःस्थितम्।।२५१॥ भ्रातृव्याजाद् द्विषन्नेष, युज्यते न ह्युपेक्षितुम् । असुमर्थ प्रभुः पृच्छत्वपरानपि मत्रिणः ॥ २५२ ॥ सम्मुखालोकनेनाऽनुयुक्तो वसुमतीभुजा । वाचस्पतिसमोऽवोचदथैवं सचिवाग्रणीः ॥ २५३॥ सेनानीरुक्तवान् युक्तं, कोऽन्यो वक्तुमिदं क्षमः । स्वामितेजो ह्युपेक्षन्ते, विक्रमायासमीरवः॥२५४॥ तेजसे स्वामिनाऽऽदिष्टा, अपि प्रायो नियोगिनः । रचयन्त्युत्तरं स्वार्थे, व्यसनं वर्द्धयन्ति वा ॥ २५५ ॥ अयं तु सेनाधिपतिर्देवकीयस्य तेजसः। पवनः पावकस्व, केवलं वृद्धिहेतवे ॥ २५६ ॥ चक्ररत्नमिव स्वामिन् , सेनाधिपतिरप्यसौ । अपि स्तोकं द्विषच्छेषमविजित्य न तुष्यति ॥ २५७ ॥ पर्याप्तं तद् विलम्बेन, दण्डहस्तैस्त्वदाज्ञया । प्रयाणभम्भा तेऽद्यैव, ताड्यतां प्रतिपक्षवत् ॥ २५८ ॥ सर्पता तन्निनादेन, सवाहनपरिच्छदाः । मिलन्तु सैन्याः सुघोषाधोपेणेव दिवौकसः ॥२५९ ॥ विदधातु प्रयाणं च, देवस्तक्षशिलां प्रति । उत्तराभिमुखं तेजोवृद्धये भानुमानिव ॥२६॥ गत्वा स्वयमपि स्वामी, भ्रातुः सौभ्रात्रमीक्षताम् । वेत्तु सत्यमसत्यं वा, सुवेगमुखवाचिकम् ॥ २६१॥ तद्वचो भरताधीशस्तथेति प्रत्यपद्यत । युक्तं वचोऽपरस्यापि, मन्यन्ते हि मनीषिणः ॥ २६२ ॥ ततः शुभेति भूपालः, कृतयात्रिकमङ्गलः । आरुरोह प्रयाणाय, नाग नगमिवोन्नतम् ॥ २६३ ॥ स्यन्दनाश्वरथारूढः, पत्तिभिश्च सहस्रशः । यात्रातूर्याण्यवाद्यन्ताऽन्यराजैकचमूनिभैः॥२६४॥ १ शत्रुः। २ प्रेरितः। ३ देवसम्बन्धिनः। शत्रुवत् । Jain Education into a For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy