SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१२९॥ Jain Education International सिंहः सहेताऽऽलीनं चेच्छरभो वा वशं व्रजेत् । वश्यो बाहुबलिश्च स्यात्, किं हि न्यूनं तदा भवेत् १ ॥ २३५ ॥ तत् सहिष्यामहे तस्य, वयं दुर्विनयानपि । यदि लोका अशक्तं मां, वदिष्यन्ति वदन्तु तत् ॥ २३६ ॥ सर्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वाऽपि तादृशस्तु विशेषतः ॥ २३७ ॥ किमेवं युज्यते नो वा?, तूष्णीमास्थाय किं स्थिताः । उदासीना इव यूयं ?, यथार्थं ब्रूत मत्रिणः ! ॥ २३८॥ क्षमया खामिनो बाहुबलेरविनयेन च । प्रहारेणेव दूनोऽथ सेनानीरित्यवोचत ।। २३९ ॥ ऋषभखामिनः सूनोः, सुप्रभोर्भरतेशितुः । उचितैव क्षमा किन्तु, करुणाभाजने जने ॥ २४० ॥ वसेद् ग्रामेऽपि यो यस्य तस्याधीनः स जायते । स देशमपि भुञ्जानो, वाचाऽपि न वशस्तव ।। २४१ ॥ प्राणापहार्यपि वरं, वैरी तेजः प्रवर्द्धयन् । न तु बन्धुरपि भ्रातुस्तेजोवधविधायकः ॥ २४२ ॥ कोशैः सैन्यैः सुहृद्भिच, तनयैर्वपुषाऽपि च । तेजो रक्षन्ति राजानस्तेषां तेजो हि जीवितम् ॥ २४३ ॥ किमपूर्ण स्वराज्येनाऽप्यभृद् भर्तुः कृतस्तु यः । षट्खण्ड भरतक्षेत्रविजयस्तेजसे स तु ॥ २४४ ॥ एकत्राऽपि क्षतं तेजः, सर्वत्र क्षतमेव हि । एकदाऽपि सती लुप्तशीला स्यादसती सदा ।। २४५ ॥ संविभागो धनेष्वेव, गृहिणामपि बान्धवैः । गृह्यमाणं तेऽपि तेजो, नोपेक्षन्ते मनागपि ॥ २४६ ॥ सकलं भरतं जिष्णोर्यदिहाऽविजयः प्रभोः । उत्तीर्णस्य पयोराशिं गोष्पदे तन्निमञ्जनम् ॥ २४७ ॥ किश्च श्रुतमिदं वाऽपि दृष्टं वा क्वाऽपि यद् भुवि । चक्रिणोऽपि प्रतिस्पद्ध, राजा राज्यं भुनक्ति च १ ॥ २४८ ॥ तत्राऽविनीते यः स्नेहो, भ्रातृसम्बन्धमात्रजः । तदेतदेकहस्तेन, तालिकावादनं विभोः ॥ २४९ ॥ १ बन्धनम् । २ दयापात्रे । ३ गृहिणोऽपि । ४ समुद्रम् । * °ते स्नेहोऽयं, खंता ॥ For Private & Personal Use Only प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत -बाहुबलियुद्धम् । ॥१२९॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy