SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Jain Education International ईदृक् तावत् तव भ्रातजखी मानी महाभुजः । गन्धेद्विप इवाऽसाः, सहते नाऽन्यविक्रमम् ॥ २२२ ॥ सभायां तस्य सामन्ता, हरेः सामानिका इव । प्रचण्ड भुजशौण्डीर्या, न हीयन्ते तदाशयात् ॥ २२३ ॥ कुमारा अपि तस्योच्चै, राजतेजोभिमानिनः । रणकण्डूलदोर्दण्डास्ततो दशगुणा इव ।। २२४ ॥ तन्मत्रमनुमन्यन्ते, मत्रिणोऽप्यस्य मानिनः । यादृशो भवति स्वामी, परिवारोऽपि तादृशः ॥ २२५ ॥ तस्याऽनुरागिणः पौरा, अप्यन्यं पार्थिवं न हि । जानन्ति न सहन्ते च सत्योऽपरपतीनिव ॥ २२६ ॥ जना जानपदा ये च तस्याऽष्टकरविष्टयः । भृत्या इवानुरागेण, तेऽपि प्राणैः प्रियैषिणः ॥ २२७ ॥ वनेचरा गिरिचराः, सिंहा इव भटाच ये । मानसिद्धिं चिकीर्षन्ति तेऽपि तस्य वशंवदाः || २२८ ॥ अलमुक्त्वा बह्वथवा, स वीरो वर्त्ततेऽधुना । युयुत्सया दिदृक्षुस्त्वां स्वामिन्नुत्कण्ठया न तु ॥ २२९ ॥ यदात्मने रोचतेऽतः परं स्वामी करोतु तत् । दूता न मन्त्रिणः किन्तु, सत्यवाचिकवाचिनः ॥ २३० ॥ युगपद् विस्मयामर्षमर्षहर्षादि तत्क्षणम् । नाटयित्वा भरतवद्, भरतोऽथाऽब्रवीदिति ॥ २३१ ॥ सुरासुरमनुष्येषु, तुल्यो नाऽमुष्य कश्चन । अर्थोऽनुभूत एवाऽयं, शिशुक्रीडास्वपि स्फुटम् ॥ २३२ ॥ जगत्रयस्वामिसूनोस्तस्याऽस्मदनुजन्मनः । त्रिलोक्यपि तृणायेति, वास्तवं न पुनः स्तवः ॥ २३३ ॥ सर्वथा श्लाघ्य एवाऽहमनेनाऽवरजन्मना । भांति नैको गुरुर्बाहुर्द्वितीयस्मिन् लघीयसि ॥ २३४ ॥ १ गन्धहस्ती इव । २ प्रचण्डभुजपराक्रमाः । * किं च तस्य कुमारा अप्योजस्ते' खंता ॥ दण्डाः । ४ पतिव्रताः स्त्रियः । ५. योद्धुमिच्छया । | सत्यसन्देशवाचिनः । ७ सूत्रधारवत् । त्येको गुरुर्बाहुर्न द्वितीये ल° खंता ॥ For Private & Personal Use Only ३ रणकण्डूयुक्तभुज८ सत्यम् । राज www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy