________________
त्रिषष्टि
शलाकापुरुषचरिते
॥१२८॥
धिग मत्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैषिद्भिरिखोपेक्षाञ्चके खाम्यत्र कर्मणि ॥ २०७॥
प्रथमं पर्व गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिर दौत्यं गुणपणम् ॥ २०८ ॥
पञ्चमः एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविदः॥२०९ ॥
सर्गः नीतः सभायां द्वास्थेन, प्रणामरचिताञ्जलिः । न्यपीदत् सोऽथ पप्रच्छे, सादरं चक्रवर्त्तिना ॥ २१॥
ऋषभजिनकिं नाम कुशलं बाहुबलेर्मदनुजन्मनः । यत् त्वं सुवेग! वेगेनाऽऽगतोऽसि क्षुभितोऽसि तत् ॥२१॥
| भरतचक्रिअथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातुस्तस्य दोष्मतः ॥२१२ ॥
चरितम् । __ सुवेगोऽपि जगादैवं, देव! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनवमौजसः ॥ २१३॥ स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाविणा ॥ २१४॥ भेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ॥ २१५॥
बलियुद्धम् । न साम्ना न खरेणापि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद्, विकारे सानिपातिके ? ॥२१॥ मानसारस्तृणायैतत् , त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमल्लं न कञ्चन ॥ २१७॥ अस्मिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभासीत् स नासिकाम् ॥२१८॥ प्रभोभरतपदखण्ड विजये प्रस्तुते च सः। अनाकर्णितकं कुर्वन्, खंदोर्दण्डौ निरीक्षते ॥ २१९॥ 13॥१२८॥ तातदत्तांशतुष्टस्य, ममैवोपेक्षयाग्रहीत् । भरतो भरतक्षेत्रषट्खण्डमिति चाऽऽह सः ॥ २२०॥ पर्याप्त सेवया तस्य, प्रत्युताऽऽह्वयतेऽधुना । रणाय देवं स व्याघीमिव दोहाय निर्भयः ॥ २२१॥ १ बलवतः। २ उत्तमपराक्रमस्य । ३ तीक्ष्णेन। ४ स्वभुजदण्डौ ।
भरत-बाहु
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org.