SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ग्रावहस्ता धनुर्हस्ताः, प्लवमानाः प्लवङ्गवत् । स्वपतीन् परिवत्रुस्ते, पतिभक्ताश्ववद् भृशम् ॥ १९२ ॥ अद्य दो बाहुबलिप्रसादावक्रयं चिरात् । भरताक्षौहिणीक्षोदादिति तेषां गिरोऽभवन् ॥ १९३ ॥ तेषामप्येवमारम्भ, ससंरम्भं निरूपयन् । सुवेगश्चिन्तयामास, मनसैवं विविक्तधीः ॥ १९४॥ पैतृकेणेव वैरेण, त्वरन्ते रणकर्मणे । अहो! अमी बाहुबलिगृह्या विषयवासिनः ॥ १९५॥ *किराता अप्यमी हन्तोत्सहन्ते हन्तुमागतम् । असद्धलं बाहुबलिबलाग्रे समरेच्छवः ॥ १९६॥ तं कञ्चन न पश्यामि, यः सज्जति युधे नहि । विद्यते स न कोऽपीह, रक्तो बाहुबलौ न यः॥१९७॥ शूराश्च स्वामिभक्ताश्च, बहल्यां हलिनोऽप्यहो । तत् किं देशस्वभावोऽयमुत बाहुबलेर्गुणः? ॥१९८॥ भवन्तु वेतनक्रीताः, सामन्ताद्याः पदातयः । अहो ! अस्य गुणक्रीती, पत्तीभूताऽखिलापि भूः ॥१९९॥ बह्वीमपि चक्रिचमू, मन्ये लध्वीं लघीयसः। श्रीबाहुबलिसैन्यस्य, तृण्यां वढेरिवाऽग्रतः॥२०॥ महावीरस्य किं चाऽस्य, न्यून बाहुबले पुरः । कलभं शरभस्येव, शङ्के चक्रिणमप्यहो! ॥२०१॥ ओजस्वी भुवि चत्र्येव, वज्येव दिवि विश्रुतः । तयोरन्तरवर्द्धवर्ती वा लघुरार्षभिः॥२०२॥ अपि तच्चक्रिणश्चक्रमपि वज्रं च वज्रिणः । मन्ये विफलमेवाऽस्य, चपेटाघातमात्रतः ॥ २०३॥ ऋक्षः कर्णे तदात्तोऽयं, महाहिर्मुष्टिना धृतः । विरोधितो यदस्माभिरहो ! बाहुबलिबली ॥ २०४॥ मृगमेकमिव द्वीपी, गृहीत्वा भूमिखण्डलम् । सन्तुष्टोऽयं मुधाऽस्माभिस्तर्जयित्वा खलीकृतः ॥२०५॥ अनेकनृपसेवाभिः, किमपूर्ण नृपस्य ? यत् । अयमारम्भि सेवाय, वाहनायेव केसरी ॥ २०६॥ * अयं श्लोक आ पुस्तके पतितः। 1रे क्व च खं ॥ १ कृषीवलाः। २ तृणसमूहम् । ३ बाहुबलिः । Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy