SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाका पुरुषचरिते ॥१२७॥ Jain Education International आरुह्याssor बाह्याल्यां धाराभिरपि पञ्चभिः । कर्तुं रणसहानश्वान्, केऽपि श्रममजापयन् ॥ १७९ ॥ अयस्कारगृहेष्वेत्य, कृपाणादिकमायुधम् । अपरे तेजयामासुस्तेजोमूर्तिमिव प्रभोः ॥ १८० ॥ संयोज्य शृङ्गसाराणि, बद्धाऽभिनवतत्रिभिः । यमभ्रूसोदराण्यन्ये, शार्ङ्गधन्वान्यसूत्रयन् ॥ १८१ ॥ वर्मादिवहनायोष्ट्रानरण्यात् केचिदानयन् । तूर्याणि प्राणवन्तीव, प्रयाणेषु प्रणादिनः ॥ १८२ ॥ सवाणान् वाणधीन केचित, सशिरस्कांच कङ्कटान् । दृढानपि दृढीचक्रुः, सिद्धान्तानिव तार्किकाः ॥ १८३ ॥ asu गुप्यगुरू काण्डपैंटान् पटकुटीरपि । गन्धर्वभवनानीव, वितत्याऽऽलोकयन् क्षणात् ॥ १८४ ॥ स्पर्द्धयेव मिथः सर्वे, भक्ता बाहुबलौ नृपे । युधि सञ्जीभवन्ति स्म, जना जानपदा अपि ।। १८५ ।। आप्तेन तत्र यः कोऽपि न्यवार्यत रणोन्मुखः । अनाप्तायेव तस्मै सोऽकुप्यद् भक्तिचिकीर्नृपे ।। १८६ ।। प्राणैरपि प्रियं राज्ञोऽनुरागेण चिकीर्षताम् । जनानामेवमारम्भं स ददर्श पथि व्रजन् ॥ १८७ ॥ श्रुत्वा दृष्ट्वा च तल्लोके, पर्वतीयनृपा अपि । प्रतिराजानमद्वैतभक्तिमानितयाऽमिलन् ॥ १८८ ॥ गावो गोपखरेणेव, निकुञ्जेभ्यः सहस्रशः । तेषां गोशृङ्गनादेन, किराताः प्रदधाविरे ॥ १८९ ॥ द्वीपिपुच्छत्वचा केचित् केकिपिच्छैश्च केचन । लताभिः केऽपि वेगेन, बबन्धुः कुन्तलान् भटाः ॥ १९० ॥ दन्दशत्वचा केsपि, तारव्या केचन त्वचा । केचिद् गोधात्वचाञ्चनन्, परिधानं मृगत्वचम् ॥ १९९ ॥ " कनात १ अश्वपाटिकायाम् । २ अश्वगतिभिः । ३ लोहकारगृहेषु । ४ यमभ्रूसदृशानि । ५ निषङ्गान् । ६ वर्माणि । ७ इति लोके । * भूभुजः पार्वता अपि खंता । पार्व सं १ ॥ ८ पर्वतसम्बन्धिनो नृपाः । ९] लतागृहेभ्यः । १० व्याघ्रपुच्छत्वचा । १३ मयूरपिच्छेः । १२ सर्पत्वचा | १३ तरुसम्बन्धिन्या । For Private & Personal Use Only प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रिचरितम् । भरत बाहुबलियुद्धम् । ॥१२७॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy