SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥१२६॥ चाटुकाराः प्रणश्यन्ति, ते सर्वेऽपि स्वयं त्वसौ । एकः सहिष्यते बाहुबलिबाहुबलाद् व्यथाम् ॥१५३॥ याहि दूत ! स एवैतु, राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन, मयैवोपैक्षि तस्य भूः ॥१५४ ॥ चित्रकायैरिव दृढस्वाम्याज्ञापाशयत्रितैः । प्रकोपताम्रनयनः, प्रेक्ष्यमाणो नरेश्वरैः ।। १५५ ॥ रोपाद्धत हतेऽत्यन्तणद्भिः स्फुरिताधरैः । कटाक्ष्यमाणो विकटं, कुमारैश्च मुहुर्मुहुः ॥ १५६ ॥ जिधन्सुभिरिवो कैः, किश्चिचलितहेतिभिः । दृढाबद्धपरिकरैरीक्ष्यमाणोऽङ्गरक्षकैः ॥१५७ ॥ हनिष्यते वराकोऽयं, केनाऽपि रभसाजुपा । नः स्वामिपंदिकेनेति, चिन्त्यमानश्च मत्रिभिः ॥१५८ ॥ सजीकृतेन हस्तेन, पादमुत्क्षिप्य तस्थुषा । कण्ठे धर्तुमिवोत्केनोत्थापितो वेत्रपाणिना ॥ १५९ ॥ सुवेगो धैर्यमालम्ब्य, मनसि क्षुभितोऽपि सन् । निर्जगाम समुत्थाय, सदासदनतस्ततः ॥ १६० ॥ [षभिः कुलकम् ] क्रुद्धतक्षशिलाधीशतारशब्दानुमानतः । द्वारस्थया पत्तिंचम्बा, रोपक्षुभितया भृशम् ॥ १६१ ॥ आस्फाल्यमानैः फलकैनर्त्यमानैर्महासिभिः । उदस्यमानैश्चक्रेश्च, गृह्यमाणैश्च मुद्गरैः ॥१६२ ॥ स्फाट्यमानैस्त्रिंशल्यैश्च, पीड्यमानैश्च तूंणकैः । आदीयमानैर्दण्डैश्चोद्यम्यमानैश्च पशुभिः ॥१६३ ॥ | सर्वतोऽप्यात्मनो मृत्युमिव पश्यन् पदे पदे । स्खलत्पदो नृसिंहस्य, सिंहद्वारात् स निर्ययौ ॥ १६४ ॥ [चतुर्भिः कुलकम् ] १ अत्तुमिच्छुभिः। २ जीकृतभ्रकुटिभिः। ३ चलितखझैः। ४ साहसिकेन । ५ स्वामिपत्तिना । ६ उत्कण्ठितेन । ७ पदातिसेनया । ८ अस्त्रप्रतिघातनिवारकैः "ढाल" इति लोके। ९ शस्त्रविशेषः। १० निषङ्गैः । CAREERSAGAR भरत-बाहुबलियुद्धम्। ॥१२६॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy