SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सर्वत्राऽप्यप्रमत्तानामलुब्धानां च नः सदा । स्खलितं किं स गृह्णीयाच्छलान्वेष्यपि भृतवत ? ॥१३९॥ किमप्यनाददानानां, तदीयं नीवृंदादिकम् । खाम्येव नः कथं नाम, स भवेद् भरतेश्वरः ॥१४॥ भगवानृषभखामी, खाम्येको मम तस्य च । मिथः स्वस्वामिसम्बन्धो, घटते कथमावयोः? ॥१४१॥ तेजोहेतोर्मयि गते, तत्र स्यात् तस्य कीदृशम् । तेजोऽभ्युदितवत्यर्के, तेजस्वी नहि पावकः ॥१४२॥ स्वामीयन्तोऽक्षमास्ते तु, निपेवन्तां क्षमाभुजः । एष येषु वराकेषु, निग्रहानुग्रहक्षमः ॥ १४३॥ सेवामिन् भ्रातृसौहार्दपक्षेणाऽपि मया कृता । चक्रवर्त्तित्वपक्षे स्याद् , यदबद्धमुखो जनः ॥ १४४ ॥ भ्राताऽस्म्यभीः स चाऽऽज्ञेश, आज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र, वज्रेण न विदार्यते ? ॥१४५|| सुरासुरनरोपास्त्या, प्रीतोऽस्त्वेष मयाऽस्य किम् ? । मार्ग एव क्षमः स्तंम्बे, रथः सजोऽपि भज्यते॥१४६॥ तातभक्तो महेन्द्रश्चेज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्याऽद्धे, स किं तेनापि दृप्यति? ॥१४७॥ ते त्वन्येऽसिन् समुद्रे ये, ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु, हन्त ! स्यां वडवानलः ॥१४८॥ पत्तयोऽश्वा रथा नागाः, सेनानीर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां, तेजांसीवाऽर्कतेजसि ॥ १४९ ॥ करिणेव करेणोच्चैर्यः समादाय पादयोः । मयोदलालि गगने, बालत्वे लोष्टुलीलया ॥१५॥ गगने दूरमध्वानं, गत्वा यश्च पतन भुवि । मा भृत् परासुरित्येष, मया प्रत्यैषि पुष्पवत् ॥ १५१॥ चाटुभिश्चाटुकाराणां, निर्जितानां क्षमाभुजाम् । व्यस्मार्षीत् तदसौ प्राप्तो, जन्मान्तरमिवाऽधुना ॥१५२॥ ग्रहणं अकुर्वाणानाम्। २ देशादिकम् । ३ स्वामिवदाचरन्तः। ४ भरतः। ५ निर्भीकः। ६ आज्ञाकारकः । उपासनया। ८ काण्डरहिते वृक्षादी। ९प्रत्यग्रहीष्ट। Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy