SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चक्रवर्तित्वपक्षेपि, तस्य सेवा त्वया कृता । अद्वैतभ्रातृसौहार्दपक्षमुयोतयिष्यति ॥ ११० ॥ भ्रातेति यदि निर्भीको, नाऽऽयास्येतन्न साम्प्रतम् । आज्ञासारा न गृह्यन्ते, ज्ञातेयेन महीभुजः ॥ १११॥ अयस्कान्तैरिवाज्यासि, देवदानवमानवाः । कृष्टाः प्रकृष्टैस्तेजोभिरायान्ति भरतेश्वरम् ॥ ११२॥ यम सनदानेन, वासवोऽपि संखीयति । तमागमनमात्रेणाऽनुकूलयसि किं नहि ॥११३॥ वीरमानितया चेत् तं, राजानमवमन्यसे । तर्हि तस्मिन् ससैन्योऽपि, त्वमब्धौ सक्तुमुष्टिवत् ॥ ११४ ॥ चतुरशीतिलक्षास्तद्गजाः शक्रेभसन्निभाः । सह्याः केनाभिसर्पन्तः, पर्वता इव जङ्गमाः? ॥११५॥ तावतोऽश्वान् स्थांश्चाऽस्य, विष्वक् प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्खलयिष्यति॥११६॥ तस्य षण्णवतिग्रामकोटिभर्तुः पदातयः । तेंद्रामप्रमिताः सिंहा, इव त्रासाय कस्य न? ॥११७ ॥ एकः सुषेणः सेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः, सोढुं देवासुरैरपि ? ॥ ११८॥ अमोघं बिभ्रतश्चक्र, चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः, स्तोकिकैव त्रिलोक्यपि ॥ ११९ ॥ तेजसा वयसा ज्येष्ठो, नृपः श्रेष्ठः स सर्वथा । राज्यजीवितकामेन, सेव्यो बाहुबले! त्वया ॥ १२०॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः । इत्यभाषिष्ट गम्भीरध्वानोऽर्णव इवाऽपरः ॥१२१ ॥ साधु दूत! त्वमेवैको, वाग्मिनामग्रणीरसि । ममापि पुरतो वाचं, य एवं वक्तुमीशिषे ॥ १२२॥ ताततुल्यो हि मे भ्राता, ज्यायान् सोऽपि यदिच्छति । समागम बान्धवानां, युक्तमेव तदप्यहो॥१२३॥ १ अद्वैतभ्रातृवात्सल्यपक्षम् । २ ज्ञातिभावेन । ३ लोहानि । ४ सखिवदाचरति । * कोट्यः षण्णवति सिं सं २, आ॥ ५ अल्पमात्रा। ६ अग्रेसरः। Jan Education International For Private & Personal Use Only RSS
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy