SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पष्टिं वर्षसहस्राणि, कृत्वा कटकमुत्कटम् । सेनान्यादिपरीवारः, कच्चित् कुशलमागतः ॥ ८२॥ सिन्दूरारुणितैः कुम्भैद्या सन्ध्याभ्रमयीमिव । वितन्वती करिघटा, राज्ञः कच्चिन्निरामया ? ॥ ८३॥ आ हिमाद्रिमहीमेतां, समाक्रम्य समेयुषाम् । राज्ञो वरतुरङ्गाणां, वर्तते कच्चिदक्लमः ॥ ८४ ॥ अखण्डाज्ञस्य सर्वत्र, सेव्यमानस्य पार्थिवैः । सुखेन व्यतिगच्छन्ति, कच्चिदार्यस्य वासराः ॥ ८५ ॥ परिपृच्छयेति तूष्णीके, स्थिते वृषभनन्दने । कृताञ्जलिरनावेगः, सुवेग इदमभ्यधात् ॥८६॥ ___ इलायाः सकलाया यः, करोति कुशलं खयम् । अस्ति तस्य स्वतः सिद्धं, कुशलं भरतेशितुः॥८७॥ पुर्याः सुषेणादीनां च, हस्त्यश्वस्य च किं क्षमः । देवोऽप्यकुशलं कर्तुं, येषां नेता तवाग्रजः॥८८॥ तुल्योऽधिको वा किं कोऽपि,क्वाऽप्यस्ति भरतेशितुः। षण्णां भरतखण्डानां,जये यो विघ्नकृद् भवेत्।।८९॥ अखण्डिताज्ञः सर्वत्र, सेव्यते च नरेश्वरैः । तथापि भरताधीशो, जातु नाऽन्तः प्रमोदते ॥९॥ दरिद्रोऽपि कुटुम्बेन, सेव्यते यः स ईश्वरः । न सेव्यते तु यस्तेन, तस्यैश्वर्यसुखं कुतः? ॥९१॥ पष्टिवर्षसहस्रान्तादेयुषा ज्यायसा तव । उत्कण्ठया कनिष्ठानामागंमाध्वा निरीक्षितः ॥ ९२॥ सर्वे तत्राऽऽययुर्वन्धुसम्बन्धिसुहृदादयः । विदधुश्च महाराज्याभिषेकं भरतेशितुः ॥ ९३ ॥ आसतां तैः समायातैः, सुरैरपि सवासबैः । न हृष्यति महीनाथोऽपश्यन् पार्श्वे निजानुजान् ॥९४ ॥ द्वादशस्खपि वर्षेषु, ज्ञात्वा भ्रातृननागतान् । तानाह्वातुं नरं प्रैषीदुत्कण्ठा हि बलीयसी ॥ ९५ ॥ अश्रमः। * सुखेनैवातिग सं १, खं ॥ । एवमापृच्छ्य तू सं २, आ ॥ २ स्थिरः । ३ पृथ्व्याः । ४ नायकः । ५ अन्तःकरणे। ६ आगतेन । ७ आगमनमार्गः।। Jain Education Interna www.jainelibrary.org. For Private & Personal Use Only l
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy