________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१२३॥
Jain Education International
गत्वा च बाहुबलये, द्वास्थेनेति न्यवेद्यत । त्वद्रातुर्ज्यायसो दूतः, सुवेगो द्वारि तिष्ठति ॥ ६८ ॥ वेत्रिणाऽथाऽऽज्ञया राज्ञोऽनुमतो धीमतां वरः । बुधोऽर्कमण्डलमित्र, सुवेगः प्राविशत् सदः ॥ ६९ ॥ आबद्धरत्नमुकुटैस्तेजस्विभिरिलाघवैः । दिवाकरैरिव दिवो, भुवं प्राप्तैरुपासितम् ॥ ७० ॥ प्रदीप्तचूलामणिभिरधृष्यैर्जगतोऽपि हि । कुमारप्रवरैर्नागकुमारैरिव सेवितम् ॥ ७१ ॥ स्वामिविश्वाससर्वस्ववल्लीसन्तानमण्डपैः । सचिवैरुपधाशुद्वैधमद्भिः परिवारितम् ॥ ७२ ॥ सहस्रशश्चाऽऽत्मरक्षैर्निष्कोशायुधपाणिभिः । उज्जिह्वैरिव फणिभिभीषणं मलयाद्रिवत् ॥ ७३ ॥ वारस्त्रीभिवज्यमानं, चामरैरतिचारुभिः । शैलं हिमालयमिव, चमरीभिर्निरन्तरम् ॥ ७४ ॥ स्वर्णदण्डधरेणाऽग्रे, शुचिवेषेण वेत्रिणा । सविद्युता शरद्वारिधरेणैवोपशोभितम् ।। ७५ ।। रत्नसिंहासनासीनं, तेजसामिव दैवतम् । ददर्श बाहुबलिनं, स तत्रोद्भूतविस्मयः ॥ ७६ ॥ [ सप्तभिः कुलकम् ]
नरनाथं ननामाऽथ, ललाटस्पृष्टभूतलः । स करीब रणद्दीर्घतरकाञ्चनशृङ्खलः ।। ७७ ।। ततो भूसंज्ञया राज्ञा, तत्कालमुपनायिते । प्रदर्शिते प्रतीहारेणाऽऽसाञ्चक्रे स आसने ॥ ७८ ॥ तं प्रसादसुधाधौता पश्यन् नृपोऽब्रवीत् । सुवेग ! कुशलं कच्चिदार्यस्य भरतेशितुः १ ॥ ७९ ॥ तातपादैर्लालितायां, पालितायां च सुन्दर ! । तस्यां पुरि विनीतायां, कच्चित् कुशलिनी प्रजा ? ॥ ८० ॥ षण्णां भरतखण्डानां, कीमादीनामिव द्विषाम् । निरन्तरायं विजयं, कच्चिद् व्यधित भूपतिः १ ॥ १ भूपतिभिः । २ काम-क्रोध-लोभमान-मद-हर्षाणाम् ।
८१ ॥
For Private & Personal Use Only
प्रथमं पर्व
पञ्चमः
सर्गः
ऋषभजिनभरतचक्रि
चरितम् ।
भरत बाहुबलियुद्धम् ।
॥१२३॥
www.jainelibrary.org