SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ लीलोद्यानेषु सम्भूय, खेलेन खुरलीजुषाम् । सुभटानां भुजास्फोटैस्त्रस्यद्रथतुरङ्गमः ॥ ५५ ॥ इतस्ततः पौरऋद्धिप्रेक्षणव्यग्रताजुषा । दक्षिणस्थेनानिषिद्धोत्पथगामिस्खलद्रथः ॥ ५६ ॥ एकत्रेवेभरत्नानि, समस्तद्वीपचक्रिणाम् । बद्धान् वरगजान् पश्यन् , बहिरुद्यानशाखिषु ॥ ५७ ॥ प्रेक्षमाणो मन्दुराश्च, बन्धुरास्तुरगोत्तमैः । ज्योतिष्काणां विमानानि, विहायेव समागतैः ॥५८॥ भरतावरजैश्वर्याश्चर्यालोकनजन्मना । शिरोऽत्येव शिरो धुन्वन् , प्रविवेश स तां पुरीम् ।। ५९ ॥ [पड़िः कुलकम् ] खच्छन्दवृत्तीनत्याढ्यानार्पणेषु वणिग्जनान् । अहमिन्द्रानिव पश्यन् , राजद्वारं जगाम सः॥६॥ सहस्ररोचिषो रोचीष्याच्छिद्येव विनिर्मितान् । कुन्तान् दधानः कुत्रापि, पत्त्यनीकैरधिष्ठितम् ॥ ६१॥ विभ्राणैरिक्षुपत्रास्यान्ययःशल्यानि पत्तिभिः । शोभितं कुत्रचिच्छौर्यद्रुमैः पल्लवितैरिव ॥ ६२॥ अभङ्गानश्मभङ्गेऽपि, बिभ्रद्भिर्लाहमुद्गरान् । सनाथं क्वापि सुभटैरेकदन्तैरिव द्विपैः ॥ ६३ ॥ फलकासिधरैः क्वापि, चन्द्रकेतुधरैरिख । शोभितं वीरपुरुषप्रकाण्डैश्चण्डशक्तिभिः ॥६४॥ आ नक्षत्रगणं दुरापातिभिः शब्दवेधिभिः । तूणपृष्ठैः कालपृष्ठपाणिभिः क्वाऽप्यधिष्ठितम् ॥६५॥ उद्दामशुण्डादण्डाभ्यां, स्थिताभ्यां पार्श्वयोर्द्वयोः । इभाभ्यां द्वारपालाभ्यामिव दूराद् भयङ्करम् ॥ ६६ ॥ सिंहद्वारं नृसिंहस्य, पश्यन् विस्मितमानसः । द्वाःस्थप्रतीक्षितस्तस्थौ, स्थितिरेषा नृपौकसाम् ॥ ६७ ॥ [ सप्तभिः कुलकम् ] १ शराभ्यासजुषाम्। २ सारथिना। ३ अश्वशालाः । ४ हट्टेषु । ५ सूर्यस्य । ६ तेजांसि । ७ नक्षत्रगणपर्यन्तम् । ८ धनुःपाणिभिः । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy