SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दा प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१२२॥ पञ्चमः सर्ग: ऋषभजिन| भरतचक्रिचरितम् । अभ्रंलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ॥४२॥ [पञ्चभिः कुलकम्] घोरां तामटवीं वेगात् , सुवेगो वेगवद्रथः । सलीलं लश्यामास, विपदं पुण्यवानिव ॥४३॥ मार्गान्ततरुविश्रान्तरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्यं, सुस्थैः पान्थवधूजनैः ॥४४॥ गोकुले गोकुले वृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोपदारकैः॥४५॥ भद्रशालादिवाऽऽहत्याऽऽरोपितैः फलमालिभिः । अलङ्कताखिलग्राम, बहलैर्बहुभिर्द्वमैः ॥ ४६॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानकदीक्षितैरिभ्यः, शोध्यमानवनीपकम् ॥४७॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छैरक्षीणऋद्धिभिः॥४८॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बहलीदेशमासदत् ॥ ४९ ॥ . [सप्तभिः कुलकम् ] ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान् मार्गेष्वना न् वार्तयन् मुहुः॥५०॥ वनेचरान् गिरिचरान् , दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन् , सुनन्दानन्दनाज्ञया ॥५१॥ प्रजानामनुरागोत्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नयम् ॥ ५२ ॥ भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ॥ ५३॥ [चतुर्भिः कलापकम् ] किञ्चिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढया ॥५४॥ १ घनैः। २ याचकम् । ३ सुखिनः। * हिंस्रप्राणिनः। ५ अनुमानं कुर्वन् । ६ नीतिम् । • सन्देशम् । भरत-बाहुबलियुद्धम् । ॥१२॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy