________________
Jain Education Interna
समेष्वपि हि मार्गेषु, रथस्तस्याऽस्खलन्मुहुः । अप्यसंयुक्तवर्णेषु, जिह्वा लल्लंगिरामिव ॥ २९ ॥ सादिभिर्वार्यमाणोऽपि प्रेर्यमाण इवाऽसकृत् । कृष्णसारः पुरस्तस्य दक्षिणाद् वामतो ययौ ॥ ३० ॥ तस्याग्रे कैरटः शुष्के, निविष्टः कण्टकद्रुमे । अरसत् कटुकं घर्ष शस्त्रमिवोर्पले ॥ ३१ ॥ उत्ततार पुरस्तस्य, प्रलम्बः कृष्णपन्नगः । क्षिप्तार्गलेव दैवेन तद्यानैनिरुरुत्सया ॥ ३२ ॥ प्रतिकूलो ववौ वायुश्चक्षुषोः प्रक्षिपन् रजः । पर्यस्यन्निव तं पश्चाद्, विचारैकविपश्चितम् ॥ ३३ ॥ तस्य दक्षिणतो भृत्वा, विररास च रासभः । अभोजितप्रस्फुटितमृदङ्गविरसखरः ।। ३४ ।।
सुवेगोऽगादनिमित्तान्येतानि प्रविदन्नपि । सद्भृत्याः स्वामिनः क्वाऽपि काण्डवत् प्रस्खलन्ति न ॥३५॥ ललचे स बहून् ग्रामनगराकर कर्बटान् । तद्वासिभिर्दृश्यमानो, वात्यावर्त इव क्षणम् ॥ ३६ ॥ तरुखण्डसरः सिन्धुपु लिनप्रभृतिष्वपि । विशश्राम न स स्वामिकार्यतोऽत्र प्रवर्त्तितः ॥ ३७ ॥ किरातैः सजकोदण्डैः, शरव्यीकृतकुञ्जरैः । चमूरुचर्मसंव्यानैर्जातुधानैरिवाऽऽकुलाम् ॥ ३८ ॥ चंमूरु- चित्रक - व्याघ्र-हरिभिः शरभैरपि । सगोत्रैरन्तकस्येव, क्रूरसचैर्निरन्तराम् ॥ ३९ ॥ युध्यमानाहि-नकुलवामँलूरविभीषणाम् । भल्लूकीकेशधरणव्यग्रबालकिरातिकाम् ॥ ४० ॥ मिथो महिषसङ्ग्रामभज्यमानजरत्तरुम् । नाहलोत्थापितक्षौद्रमक्षिकाभिरसञ्चराम् ॥ ४१ ॥
१ स्खलद्गिराम् । २ मृगविशेषः । ३ काकः । ४ पाषाणे । ५ कृष्णसर्पः । * ननिषिषित्सया खंता ॥ ६ विचारकचतुरम् । ७ गर्दमः । ८ बाणवत् । ९ चक्रवातः । १० लक्ष्यीकृतकुअरैः । चमूरच खंता, सं २, आ ॥ ११ मृगविशेषः । + चमूरैश्चित्रकैर्व्याघ्रैर्ह खंता, सं २, आ ॥ १२ अष्टापदैः । १३ वल्मीकाः ।
For Private & Personal Use Only
www.jainelibrary.org.