________________
त्रिपष्टि
शलाका
पुरुषचरिते
॥१२१॥
Jain Education International
दावाग्निमेघवृष्टिभ्यामिवाऽद्रिर्भरतेश्वरः । सद्यः कोपोपशान्तिभ्यामाश्लिष्टोऽथाऽब्रवीदिदम् ॥ १४ ॥ नानुजोऽपि करोत्याज्ञामिति लज्जाकृदेकतः । सार्द्धं कनीयसा युद्धमिति चैकत्र बाधते ॥ १५ ॥ स्वगृहेऽपि न यस्याऽऽज्ञा, तस्याऽऽज्ञा हासकृद् बहिः । प्रवादश्च कनिष्ठस्याऽविनयासहने मम ॥ १६ ॥ एकतो राजधर्मोऽयं दृप्तानां दर्पशार्तनः । इतो भ्रातरि सौभ्रात्रं, सङ्कटे पतितोऽस्मि हा ! ॥ १७ ॥
अमात्योऽप्यभ्यधादेवं, स्वमहत्त्वेन सङ्कटम् । यद् देवस्य कनीयांस्तत् स एव ह्यपनेष्यति ॥ १८ ॥ आज्ञा हि ज्यायसा देया, कर्त्तव्या च कनीयसा । आचारो रूढ एवाऽयं, सामान्यगृहिणामपि ॥ १९ ॥ भ्रातरं तत् कनीयांसं, लोकरूडेन वर्त्मना । आज्ञापयतु देवोऽपि, प्रेष्य सन्देशहारकम् ॥ २० ॥ आज्ञां सर्वजगन्मान्यां, वीरमानी तवाऽनुजः । सहिष्यते न चेद् देव !, पर्याणमिव केसरी ॥ २१ ॥ प्रशास्यास्त्वं तदा पाकशासनोद्गाढशासनः । न चाऽपवादस्ते लोके, लोकाचारानतिक्रमात् ॥ २२ ॥ तथेति प्रतिपेदे तद्वचनं मेदिनीपतिः । उपादेया शास्त्रलोकव्यवहारानुगा हि गीः ॥ २३ ॥ अनुशिष्य ततो दूतं, नयज्ञं वाग्मिनं दृढम् । सुवेगं नाम नृपतिः, प्रैषीद् बाहुबलिं प्रति ॥ २४ ॥ स्वामिशिक्षां दौत्यदीक्षामिवाऽऽदाय स सौष्ठवाम् । सुवेगो रथमारुह्याऽचलत् तक्षशिलां प्रति ।। २५ ।। सारसैन्यपरीवारो, रथेनाऽसंघरंहसा । निर्ययौ स विनीताया, राजाज्ञेव वपुष्मती ॥ २६ ॥ कार्यारम्भविधौ वामं, दैवं पश्यदिवाऽसकृत् । पस्पन्दे लोचनं वामं गच्छतस्तस्य वर्त्मनि ॥ २७ ॥ नाडी नाडीधमस्येव वह्निमण्डलमध्यतः । उवाह दक्षिणा तस्य, रोगाभावेऽप्यनारतम् ॥ २८ ॥ १] गर्वनाशकः । २ ज्येष्ठेन । ३ लघुना । ४ वाचालम् । ५ वेगवता । ६ प्रतिकूलम् । ७ सुवर्णकारस्य ।
For Private & Personal Use Only
प्रथमं पर्व
पश्चमः
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
भरत बाहुबलियुद्धम् ।
॥१२१॥
www.jainelibrary.org.