SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। ततश्च भरताधीशः, सदासदनमीयिवान् । सुषेणसेनापतिना, नमस्कृत्येत्यभाष्यत ॥१॥ कृत्वाऽपि दिग्जयमिदं, तव चक्र पुरीमिमाम् । अद्यापि न प्रविशति, स्तम्भं व्याल इव द्विपः ॥२॥ बभाषे भरतोऽप्येवं, पट्खण्डभरतान्तरे । अद्यापि वीरः को नाम, ममाऽऽज्ञान प्रतीच्छति ॥३॥ __ तदैव सचिवोऽवोचजाने देवेन निर्जितम् । एतद्धि भरतक्षेत्रमा क्षुद्रहिमवगिरि ॥४॥ जेयः किमवशिष्टोऽस्ति, दिग्यात्राकृत्यपि त्वयि ? । भ्रमद्वरद्दे पतितास्तिष्ठन्ति चणकाः किमु ? ॥५॥ पुर्यामप्रविशञ्चैतच्चक्रं सूचयति प्रभो ! । कमप्यद्यापि जेतव्यं, त्वदाबालङ्घनोन्मदम् ॥६॥ देवेष्वपि न पश्यामि, जेतव्यं दुर्जयं च ते । आ ज्ञातमथवाऽस्त्येको, जेतव्यो विश्वदुर्जयः॥७॥ ऋषभस्वामिनः सूनुः, स्वामिन्नवरजस्तव । महाबलो बाहुबलिबलिनां बलसूदनः ॥८॥ सर्वास्त्राण्येकतो वज्रमेकतश्च यथा तथा । एकतो राजकं सर्व, स बाहुबलिरेकतः॥९॥ लोकोत्तरो यथाऽसि त्वमृषभखामिनन्दनः । तथा सोऽपि तदेतस्मिन्नजिते किं जितं त्वया ? ॥१०॥ षट्खण्डे भरते दृष्टो, न कोऽपि स्वामिनः समः । तज्जये परंभागोऽस्तु, को नाम भरतेशितुः? ॥११॥ अयं खलु जगन्मान्यां, भवदाज्ञां न मन्यते । तदसाधनतश्चक्रमेति हीणमिवेह न ॥१२॥ उपेक्षितव्यो न परः, स्वल्पोऽप्यामयवद् यतः । तदद्याऽलं विलम्बेन, यतध्वं तज्जयं प्रति ॥१३॥ निषष्टि. २१ १ सभामण्डपम् । २ दुष्टगजः । ३ लघुभ्राता । : राजसमूहम् । ५ उत्कर्षता । ६ लज्जितमिव । ७ शत्रुः। Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy