________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
सर्गः
॥१२०॥
दूराम्बुत्वेन कूपस्य, मध्येऽपि गलिताम्बुकम् । निथोत्य पूलं द्रमकः, स्नेहपोतमिवाऽपिबत् ॥ ८४२ ॥
नच्छिन्ना यार्णवाद्यैस्तृट, छेद्या पूलाम्भसा न सा । तद्वद् वः स्वःसुखाच्छिन्ना, छेद्या राज्यश्रिया किमु ? अमन्दानन्दनिःस्यन्दनिर्वाणप्राप्तिकारणम् । वत्साः! संयमराज्यं तद् , युज्यते वो विवेकिनाम् ॥ ८४४॥ तत्कालोत्पन्नसंवेगवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु, प्रव्रज्यां जगृहुस्ततः ॥ ८४५ ॥ अहो ! धैर्यमहो ! सत्त्वमहो ! वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं, दूता राज्ञे न्यवेदयन् ॥ ८४६ ॥
ज्योतीपीव ज्योतिषां ज्योतिरीशस्तेजांसीवाऽहपतिः पावकानाम् ।
वारीणीव स्रोतसां वारिराशिस्तेषां राज्यान्याददे चक्रवर्ती ॥ ८४७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भरतच
कोत्पत्ति-दिग्विजय-राज्याभिषेक सोदर्यव्रतग्रहणकीर्तनो नाम चतुर्थः सर्गः॥४॥ *हप्रोत खं, सं॥ १ स्वर्गसुखाच्छिन्ना ।
ऋषभजिनभरतचक्रिचरितम् ।
पुत्रान् प्रति अङ्गारकारक
दृष्टान्तेन प्रभोरुपदेशः, तेषां दीक्षा च।
॥१२०॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org