SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पुत्रान् प्रति अङ्गारकारक दृष्टान्तेन प्रभोरुपदेशः, तेषां दीक्षा च। वत्साः ! पुरुषवीरैर्हि, पुरुषव्रतधारिभिः । योद्धव्यं वैरिवर्गेणाऽनर्गलं द्रोहकारिणा ॥ ८२८ ॥ रागो द्वेषश्च मोहश्च, कषायाश्चेति वैरिणः । अनर्थदायिनः पुंसां, जन्मान्तरशतेष्वपि ॥ ८२९ ॥ रागो हि सद्गतौ पुंसामायसी पादशृङ्खला । द्वेषश्च नरकावासनिवासप्रतिभूली ॥ ८३० ॥ मोहो भवार्णवावर्त्तप्रक्षेपणपणो नृणाम् । कषायाः स्वाश्रयानेव, दहन्ति दहना इव ॥ ८३१॥ अनपायमयैस्तैस्तैरुपायास्त्रेनिरन्तरम् । युद्धा युद्धा विजेतव्यास्तदमी वैरिणो नृभिः ॥ ८३२ ॥ सेवाऽपि हि विधातव्या, धर्मस्यैवैकतायिनः । तच्छाश्वतानन्दमयं, पदमीपत्करं यया ॥ ८३३ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं, राज्यश्रीः सापि नश्वरी ॥ ८३४ ॥ किं च या स्वःसुखैस्तृष्णा, नाऽत्रुट्यत् प्राग्भवेषु वः। साऽङ्गारकारकस्येव, मर्त्य भोगैः कथं त्रुटेत?॥८३५॥ ___ अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमगारानरण्ये रीणवारिणि ॥ ८३६ ॥ सोऽङ्गारानलसन्तापान्मध्याह्नातपपोपितात् । उद्भूतया तृषाऽऽक्रान्तः, सर्व दृतिपयः पपौ ॥ ८३७॥ तेनाऽप्यच्छिन्नतृष्णः सन् , सुप्तः स्वमे गृहं गतः । आलूकलसनन्दानामुदकान्यभितोऽप्यपात् ॥ ८३८॥ तजलैरप्यशान्तायां, तृष्णायामग्नितैलवत् । वापीकूपतडागानि, पायं पायमशोषयत् ॥ ८३९ ॥ तथैव तृषितोऽथाऽपात्, सरितः सरितांपतीन् । न च तस तृषाऽत्रुट्यनारकस्येव वेदना ॥ ८४०॥ मरुकूपे ततो यातः, कुशपूलं स रज्जुभिः । बद्धा चिक्षेप पयसे, किमातः कुरुते नहि ? ॥ ८४१॥ लोहमयी। २ प्रतिनिधिः। ३ ग्लहः। नित्यानन्दमयम् । ५ शुष्कजले। ६ जलपात्रभेदाः। ७दर्भपूलम् ।। Jan Education Interna For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy