SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि प्रथमं पर्व शलाका पुरुषचरिते चतुर्थः सगः ऋषभजिनभरतचक्रिचरितम् । ॥११९॥ न किञ्चित् कस्यचित् साम्ना, बलाद् वा गृह्यते त्वया । त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते ॥८१३॥ स्वामिस्त्वमेको जगतां, समं चेतःसु वर्त्तसे । पीयूषदीधितिः सर्वजलाशयजलेष्विव ॥ ८१४ ॥ त्वां स्तोता स्तूयते देव !, सर्वैस्त्वामर्चिताऽर्च्यते । त्वां नन्ता नम्यते सर्वा, त्वयि भक्तिर्महाफला ॥८१५॥ त्वं देव ! दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपस्त्वमेव हि ॥ ८१६ ॥ रोराणामीश्वराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ॥ ८१७॥ इति स्तुत्वा भ्रमरवत् , स्वामिपादारविन्दयोः । निवेशितदृशस्तेऽथ, सम्भूयैवं व्यजिज्ञपन् ॥ ८१८ ॥ तदानीं तातपादैनः, संविभज्य पृथक् पृथक् । देशराज्यानि दत्तानि, यथार्ह भरतस्य च ॥ ८१९॥ तैरेव राज्यैः सन्तुष्टास्तिष्ठामो विष्टपेश्वर! । विनीतानामलङ्घया हि, मर्यादा खामिदर्शिता ॥ ८२० ॥ खराज्येनाऽन्यराज्यैश्चाऽपहृतैभरतेश्वरः। न सन्तुष्यति भगवन् !, बडवाग्निरिवाऽम्बुभिः॥८२१॥ आचिच्छेद यथाऽन्येषां, राज्यानि पृथिवीभुजाम् । अस्माकमपि भरतस्तद्वदाच्छेत्तुमिच्छति ।। ८२२ ॥ त्यज्यन्तामाशु राज्यानि, सेवा वा क्रियतां मम | आदिदेशेति पुरुषैर्भरतो नः परानिव ।। ८२३॥ वचोमात्रेण मुश्चामस्तस्याऽऽत्मवहुमानिनः । तातदत्तानि राज्यानि, क्लीबा इव कथं वयम् ॥ ८२४ ॥ सेवामपि कथं कुर्मो, निरीहा अधिकद्धिषु ? । अतृप्ता एव कुर्वन्ति, सेवां मान विघातिनीम् ॥ ८२५॥ राज्यामुक्तावसेवायां, युद्धं स्वयमुपस्थितम् । तातपादांस्त्वनापृच्छय, न किञ्चित् कर्तुमीश्महे ॥ ८२६ ॥ अम्लानकेवलज्ञानसङ्कान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् ॥ ८२७॥ १चन्द्रः। २ दीनानाम् । ३ हे जगदीश्वर । ४ नपुंसकाः। ५ निःस्पृहाः । ६ अमोचने । सेवाया अकरणे । भरतभ्रातॄणां प्रभोः समीपे आगमनम् । KESANAA सन ॥११९॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy