SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥११८॥ सर्ग: ऋषभजिन| भरतचक्रिचरितम् । HOROSCARAMSARSMS क्रूरकर्महिमग्रन्थिविद्रावणदिवाकरः । स्वामिन्नसादृशां पुण्यरिमा विहरसे महीम् ॥ ७८३ ॥ शब्दानुशासनव्यापिसंज्ञासूत्रोपमा प्रभो! । जन्मव्ययध्रौव्यमयी, जयति त्रिपदी तव ॥ ७८४ ॥ यस्त्वां स्तौतीह भगवंस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? ॥७८५।। भगवन्तमिति स्तुत्वा, नत्वा च भरतेश्वरः । पूर्वोत्तरस्यां ककुभि, निषसाद यथोचितम् ॥ ७८६ ॥ सुन्दर्यपि हि वन्दित्वा, खामिनं वृषभध्वजम् । कृताञ्जलिर्जगादेवं, गद्गदाक्षरया गिरा ॥७८७॥ मनसा दृश्यमानोऽभूरियत्कालं जगत्पते । प्रत्यक्षं बहुभिः पुण्यैर्दिष्ट्या दृष्टोऽसि सम्प्रति ॥ ७८८॥ मृगतृष्णोपमसुखे, संसारमरुमण्डले । पुण्यैः प्राप्तोऽसि लोकेन, त्वं पीयूषमहादः ॥ ७८९ ॥ निर्ममोऽपि जगन्नाथ !, जगतोऽप्यसि वत्सलः । कथं विषमदुःखाब्धेस्तत्समुद्धरसेऽन्यथा? ॥ ७९०॥ कृतिनी स्वामिनी ब्राह्मी, भ्रातृव्याः कृतिनो मम । भ्रातृव्यजाश्च कृतिनो, ये हि त्वत्पथमन्वगुः ॥७९१।। भरतेशोपरोधेन, यन्मयाऽग्राहि न व्रतम् । भगवंस्तदियत्कालं, स्वयमेवाऽस्मि वश्चिता ॥ ७९२ ॥ विश्वतारक ! मां दीनां, तात! तारय तारय । गृहोयोतकरो दीपः, किं नोयोतयते घटम् ? ॥ ७९३ ॥ प्रसीद देहि दीक्षां मे, विश्वत्राणैकदीक्षित! । संसाराम्भोधितरणयानपात्रनिभां विभो॥ ७९४ ॥ साधु साधु महासत्त्वे !, ब्रुवन्निति ददौ विभुः । तस्यै दीक्षां सामायिकसूत्रोच्चारणपूर्विकाम् ॥ ७९५॥ महाव्रतद्रुमारामसुधासारणिसन्निभाम् । अनुशिष्टिमयीं तस्यै, देशनां विदधे विभुः ॥ ७९६ ॥ मोक्षप्राप्तमिवाऽऽत्मानं, मन्यमाना महामनाः । अनुज्येष्ठं निषसाद, सा मध्येवतिनीगणम् ॥ ७९७॥ १ कृतार्था । २ भ्रातृपुत्राः । ३ शिक्षामयीम् । भरत-सुन्दरीभ्यां विहिता ऋषभप्रभोः स्तुतिः, सुन्दरीदीक्षा च । ॥११८॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy