SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ S EHISSGARRIAK यदि चौषधयो दिव्याः, प्राप्यन्ते नाऽसदोकसि । तदौषधीभी रहितो, हिमाद्रिरपि सम्प्रति ॥ ७४२॥ दये पश्यन्निमां क्षामां, दरिद्रतनयामिव । तदहो! वैरिभिरिव, भवद्भिर्वञ्चितोऽस्म्यहम् ॥ ७४३ ॥ प्रणम्य भरतं तेऽपि, प्रोचुरेखं नियोगिनः । सर्वमप्यस्ति देवस्य, देवेन्द्रस्येव सद्मनि ॥ ७४४ ॥ किन्तु देवो यदाचगाद् , दिग्जयाय तदाद्यसौ । आचामाम्लानि कुरुते, प्राणत्राणाय केवलम् ॥७४५॥ तथा यदैव देवेन, प्रव्रजन्ती न्यषिध्यत । ततः प्रभृत्यसौ तस्थौ, भावतः संर्यतैव हि ॥ ७४६ ॥ कल्याणिनेयि ! कल्याणि !, प्रविजिषसीति सा । अनुयुक्ता महीनाथेनैवमेवेत्यवोचत ॥ ७४७॥ भरतोऽप्यभ्यधादेवं, प्रमादेनाऽऽर्जवेन वा । अहमस्या इयत्कालं, व्रतविघ्नकरोऽभवम् ॥ ७४८॥ अपत्यं तातपादानामनुरूपमसौ खलु । असक्तं विषयासक्ता, राज्यातृप्ताश्च के वयम् ? ॥ ७४९ ॥ आयुर्विनश्वरतरं, वार्द्धिवारितरङ्गवत । जानन्तोऽपि न जानन्ति, जना विषयगृनवः ॥ ७५०॥ गत्वरेणाऽऽयुषाऽनेन, मोक्षः साध्येत साधु तत् । मार्गावलोकनमिव, विद्युता दृष्टनष्टया ॥ ७५१ ॥ यकृच्छकॅन्मूत्रमलखेदामयमयस्य यत् । प्रसाधनं वपुषस्तद्, गृहस्रोतोऽधिवासनम् ॥ ७५२ ॥ आदत्से वपुषाऽनेन, साधु मोक्षफलं व्रतम् । क्षीराब्धितोऽपि रत्नानि, गृहन्ति निपुणाः खलु ॥७५३ ॥ अनुज्ञाता नरेन्द्रेण, मुदितेन व्रताय सा । तपःकृशाऽप्यकृशेव, प्रमदोच्छुसिताऽभवत् ॥ ७५४ ॥ १ यतः प्रभृति । *आचाम्लानि कुरुते च प्रा खं ॥ श्लोकोऽयं आपुस्तके नोपलभ्यते । २ दीक्षिता । ३ कल्याण्याः अपत्यं कल्याणिनेयी तत्सम्बुद्धौ। ४ प्रवजितुमिच्छसि। ५ पृष्टा । ६ निरन्तरम् । . कुक्षौ दक्षिणभागस्थो मांसपिण्डः । ८ विष्टा । ९ मण्डनम् । Jain Education Internatione For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy