________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥११०॥
चतुर्थः
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
आरूढः करिणः स्कन्धं, कुम्भदेशे च दक्षिणे । मणिरत्नं निवेश्योच्चैस्तां विवेश गुहां नृपः ॥५६२॥ अन्वीयमानः सैन्येन, भरतस्तिमिरच्छिदे । काकिण्या पूर्ववत् तत्र, मण्डलान्यालिखन् ययौ ॥ ५६३॥ निःसरन्त्यौ गुहाप्रत्यभित्तेः प्राग्भित्तिमध्यतः। भूत्वा मिलन्त्यौ जाह्वव्या,सख्या सख्याविवाऽभितः॥५६४ ते उन्मना-निमग्नाख्ये, निम्नगे पाप भूपतिः । प्राग्वच पद्यया सद्यो, ललझे सह सेनया ॥ ५६५॥ तद्गुहादक्षिणद्वारं, स्वयमुजघटे क्षणात् । सैन्यशल्यातुरेणेव, वैताख्येनाद्रिणेरितम् ॥ ५६६ ॥ निर्ययौ तद्गुहामध्यात् , केसरीव नरेश्वरः । स्कन्धावारं च निदधे, गाङ्गे रोधसि पश्चिमे ॥ ५६७ ॥
उद्दिश्य च निधीन् पृथ्वीपतिश्चक्रेऽष्टमं तपः । प्राक्तपोर्जितलब्धीनामागमे मार्गदर्शकम् ॥ ५६८॥ अष्टमान्ते तमभ्येयुर्निधयो नव विश्रुताः । सदा यक्षसहस्रेण, ते प्रत्येकमधिष्ठिताः ॥ ५६९ ॥ नैसर्पः पाण्डकश्चाऽथ, पिङ्गलः सर्वरत्नकः।महापद्मः कालमहाकाली माणवशङ्कको ॥५७०॥ तेऽष्टचक्रप्रतिष्ठाना, उत्सेधे चाऽष्टयोजनाः । नवयोजनविस्तीर्णा, दैर्घ्य द्वादशयोजनाः ॥ ५७१॥ वैडूर्यमणिकपाटस्थगितवदनाः समाः । काश्चना रत्नसम्पूर्णाश्चक्रचन्द्रार्कलाञ्छनाः ॥ ५७२॥ तेषामेवाऽभिधानस्तु, तदधिष्ठायकाः सुराः । पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ ५७३ ॥ स्कन्धावारपुरग्रामाकरद्रोणमुखौकसाम् । मडम्बपत्तनानां च, नैसर्पाद् विनिवेशनम् ॥ ५७४ ॥ मानोन्मानप्रमाणानां, सर्वस्य गणितस्य च । धान्यानामथ बीजानां, सम्भवः पाण्डकान्निधेः॥५७५॥ नराणामथ नारीणां, हस्तिनां वाजिनामपि । सर्वोऽप्याभरणविधिनिधेर्भवति पिङ्गलात् ॥ ५७६ ॥ १मार्गेण । २ प्रेरितम् । ३ आकरः खनिः, जल-स्थलपथाभ्यां यत्र भाण्डाद्यागच्छति तद् द्रोणमुखम् ।
RESEARCRACAAAAAA
भरतस्य | दिग्विजयः। नव विधयः।
॥११०॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org