SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भुञ्जानो विविधान् भोगांस्तत्र राजा तया सह । एकाहमिव वर्षाणां, सहस्रं सोऽत्यवाहयत् ॥ ५४७ ॥ कथञ्चिदपि सम्बोध्य, सोऽनुज्ञाप्य च जाह्नवीम् । खण्डप्रपाताभिमुखं, चचाल प्रबलैर्बलैः॥५४८॥ गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप, केसरीव वनाद् वनम् ॥ ५४९ ॥ अथ खण्डप्रपाताया, गुहायाः सोऽपि दूरतः । निवेशयामास बलं, बलेनाऽतिमहाबलः ॥ ५५० ॥ तत्र देवं नाट्यमालं, कृत्वा मनसि भूपतिः । चक्रेऽष्टमतपोऽचालीत, तस्य देवस्य चाऽऽसनम् ॥५५॥ स ज्ञात्वाऽवधिना तत्राऽऽयातं भरतचक्रिणम् । उपायनैरुत्तमर्णमधमर्ण इवाऽऽययौ ॥ ५५२ ॥ पदखण्डमाभूषणस्य, स देवो भूरिभक्तिभाक् । भूषणान्यर्पयामास, सेवां च प्रत्यपद्यत ॥ ५५३ ॥ कृतनाट्यं नटमिव, नाट्यमालसुरं ततः । प्रसादपूर्वमुर्वीशो, विससर्ज विवेकयुक् ॥ ५५४ ॥ पारणं विदधे भूपस्तस्य चाऽष्टाह्निकोत्सवम् । सुषेणं चाऽऽदिशत् खण्डप्रपातोडाव्यतामिति ॥५५५॥ नाट्यमानं चमूनाथः, कृत्वा मनसि मत्रवत् । चक्रेऽष्टममग्रहीच, पौषधं पौषधौकसि ॥ ५५६॥ निष्क्रम्य पौषधागारादष्टमान्ते चम्पतिः । प्रतिष्ठायामिवाऽऽचार्यवर्यो बलिविधिं व्यधात ॥५५७ ॥ ततश्च विहितप्रायश्चित्तकौतुकमङ्गलः । महाय॑स्वल्पनेपथ्यभृद् धूपदहनं दधत् ।। ५५८ ॥ खण्डप्रपातां स ययावालोकेऽपि ननाम च । आनर्च तत्कपाटे च, लिलेख चाऽष्टमङ्गलीम् ॥ ५५९ ॥ पदान्यपेत्य सैताऽथ, कपाटोद्घाटनाय सः । उपाददे दण्डरनं, काश्चनीमिव कुञ्चिकाम् ॥ ५६० ॥ तेनाऽऽहतं च दण्डेन, तत्कपाटद्वयं क्षणात् । व्यघटिष्टाऽशुमद्रश्मिस्पृष्टपङ्कजकोशवत् ॥ ५६१॥ १ एकदिनमिव । * सप्ताष्ट, कसं २, आ॥ Jain Education into For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy