SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥१०९॥ Jain Education Internatio नाम्ना सुभद्रां स्त्रीरत्नं, स स्वां दुहितरं ततः । राज्ञे विश्राणयामास, स्थिरीभूतामिव श्रियम् ॥। ५३४ ॥ [ विंशत्या कुलकम् ] महामूल्यानि रत्नानि भूभुजे नमिरप्यदात् । गृहागते स्वामिनि हि, किमदेयं महात्मनाम् १ ।। ५३५ ॥ अथ राज्ञा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशाङ्खिमूले जगृहतुर्व्रतम् ।। ५३६ ।। . ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छन् सोऽमन्दतेजस्कः, प्राप मन्दाकिनीतटम् ॥ ५३७ ॥ नात्यासन्ने नातिदूरे, जाह्नवीसदनस्य सः । सैन्यान्यावासयामास, वसुंमत्येकवासवः ॥ ५३८ ॥ गङ्गां सिन्धुवदुत्तीर्य, नृपादेशाच्चमूपतिः । सुषेणः साधयामास, गाङ्गमुत्तरनिष्कुटम् ।। ५३९ ।। ततः सोऽष्टमभक्तेन, गङ्गादेवीमसाधयत् । उपचारः समर्थानां सद्यो भवति सिद्धये ॥ ५४० ॥ राज्ञे विश्राणयामास, रत्नसिंहासनद्वयम् । अष्टोत्तरं रत्नकुम्भसहस्रं च सरिद्वरा ॥ ५४१ ॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्राऽवलोक्य गङ्गाऽपि प्राप क्षोभमयीं दशाम् ॥ ५४२ ॥ विराजमाना सर्वाङ्गं, मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥ ५४३ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव, तद्रूपपरिणामतः ।। ५४४ ॥ रोमाञ्चकञ्चुकोदञ्चत्कुचस्फुटितकञ्चुका । स्वयंवरस्रजमिव क्षिपन्तीं धवलां दृशम् ५४५ ॥ प्रेमगद्गदया वाचा, गाढमभ्यर्थ्य पार्थिवम् । रिरंसमाना साऽनैषीद्, देवी रैतनिकेतनम् ॥ ५४६ ॥ 1 [ चतुर्भिः कलापकम् ] १ पृथ्व्यामेक इन्द्रः । २ गङ्गा । ३ सम्भोगस्थानम् । For Private & Personal Use Only प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतस्य दिग्विजयः । | ॥ १०९ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy