SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आरोहक इवेभस्य, वैतादयस्याऽस्य भूभृतः । पार्श्वे कृतपदोऽस्त्येप, भूपतिर्भुजगर्वितः ॥ ४९२॥ तदेष जितकासी सन्नसत्तोऽपि जिघृक्षति । मन्ये दण्डं तदुद्दण्डं, चिक्षेपाऽस्मासु सायकम् ॥४९३॥ तावन्योऽन्यमुदित्वैवमुत्थाय समरोन्मुखौ । प्रतस्थाते गिरिप्रस्थं, स्थगयन्तौ निजैर्बलैः ॥ ४९४ ॥ तत्र धुसद्धलानीव, सौधर्मेशाननाथयोः । आज्ञयाऽथ तयोर्विद्याधरानीकान्युपाययुः॥ ४९५ ॥ तेषामुच्चैः *किलिकिलारावैर्वैताख्यपर्वतः । जहासेव जगजेंव, पुस्फोटेव समन्ततः ॥ ४९६॥ विद्याधरेन्द्रभृतकाः, कलधौतमयान् पृथून् । दुन्दुभीन् वादयामासुर्वैताव्यस्येव कन्दरान् ॥ ४९७ ॥ उदग्दक्षिणयोः श्रेण्योभूमिग्रामपुराधिपाः । विचित्ररत्नाभरणा, रत्नाकरसुता इव ॥ ४९८ ॥ अस्खलद्गतयो व्योम्नि, सौपर्णेया इवाऽचलन् । समं नमिविनमिभ्यां, तन्मूर्त्तय इवाऽपराः ॥ ४९९॥ एयुर्विचित्रमाणिक्यप्रभोद्भासितदिअखैः । विमानैः केऽप्यसंलक्ष्यभेदा वैमानिकामरैः ॥५०॥ गर्जद्भिः शीकरासारवर्षिभिर्गन्धसिन्धुरः । पुष्करावर्तकाम्भोदसोदरैरपरेऽचलन् ॥५०१॥ आच्छिन्नैरिन्दुमार्तण्डप्रभृतिज्योतिषामिव । सुवर्णरत्वरचितैः, स्यन्दनैः केचिदापतन् ॥ ५०२॥ गगने वल्गु वल्गद्भिवेगातिशयशालिभिः । केपि प्रतस्थिरे वायुकुमाररिख वाजिभिः॥ ५०३ ॥ विहस्तहस्ताः शस्त्रोधैर्वज्रसन्नाहधारिणः । प्लवमानाः प्लंबङ्गवत् , केचिदेयुः पदातयः॥५०४॥ तावथोत्तीर्य वैतात्याद्, विद्याधरबलावृतौ । युयुत्समानी सन्नद्धी, भरतेश्वरमीयतुः॥५०५॥ कृतस्थानः। २ जयाभिमानी। ३ देवसैन्यानि इव। * किलकिला सं १, २. ॥ सीकरा सं १, खं ॥ x४ व्याकुलहस्ताः। प्लवगवत् आ॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy