SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते प्रथमं पर्व चतुर्थः सगः ऋषभजिनभरतचक्रिचरितम् । ॥१०७॥ भरतस्य गत्वा ऋषभकूटाद्रिमृषभखामिभूस्ततः । जघान रथशीर्षण, त्रिर्दन्तेनेव दन्तिराट् ॥ ४७७ ॥ स्थापयित्वा रथं तत्र, पृथिवीपतिरग्रहीत् । पाणिना काकिणीरनं, रश्मिकोशमिवार्यमा ॥४७८ ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतोऽस्म्यहम् । चक्रीति वर्णान् काकिण्या, तत्पूर्वकटकेऽलिखत् ॥४७९॥ ततो व्यावृत्य सद्वत्तः, स्कन्धावारं निजं ययौ । चकाराऽष्टमभक्तान्तपारणं च महीपतिः॥४८॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाह्निकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः ॥ ४८१॥ ___ गङ्गासिन्धुमहानद्योरन्तरालमहीतले । अमाद्भिरिव वियत्युत्प्लवमानस्तुरङ्गमैः ॥ ४८२ ॥ सैन्यभारपरिक्लान्तां, सेक्तुकामैरिवाऽवनिम् । प्रस्रवद्भिर्मदजलप्रवाहं गन्धसिन्धुरैः ॥ ४८३ ॥ उद्दामनेमिरेखाभिः, सीमन्तालतामिव । विदधानैर्वसुमती, सन्दिभिः स्यन्दनोत्तमैः ।। ४८४ ॥ पत्तिभिः कोटिसङ्ख्यैश्च, प्रसरद्भिर्महीतले । दर्शयद्भिर्नराद्वैतमिवाऽद्वैतपराक्रमैः ॥ ४८५ ॥ अश्ववारानुगो जात्यमतङ्गज इव वजन् । चक्ररत्नानुगश्चक्री, प्राप वैताव्यपर्वतम् ॥ ४८६ ॥ शिविरं शबरीगीताविगीतादिजिनस्तवे । उदनितम्बे तस्याऽद्रेनरेन्द्रः सन्न्यवेशयत् ॥ ४८७॥ __ ततो नमिविनम्याख्यौ, विद्याधरपती प्रति । प्रैजिधाय विशामीशो, मार्गणं दण्डमार्गणम् ॥४८८॥ आलोक्य मार्गणं तं च, विद्याधरपती वरौ । कोपाटोपसमाविष्टावित्यमन्त्रयतां मिथः ॥ ४८९ ॥ द्वीपस्य जम्बूद्वीपस्य, वर्षेऽत्र भरतेऽधुना । उत्पेदे भरतो हन्त !, प्रथमश्चक्रवर्त्ययम् ॥ ४९०॥ असावृषभकूटाद्रौ, चन्द्रबिम्ब इव स्वयम् । नामधेयं लिखित्वा खं, वलितोत्र समाययौ ॥ ४९१॥ * काकणी खंता ॥ काकण्या, खंता ॥ नरमयम् । २ अनिन्द्यः । प्रेरयामास । ४ दण्डयाचकम् । दिग्विजयः। ॥१०७॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy