SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ - चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त गृहिरत्नप्रभावतः ॥ ४३४॥ प्रातरुताश्च कूष्माण्डपालक्यामूलकादयः । दिनान्ते निरपद्यन्त, प्रासादा ऐन्दवा इव ॥ ४३५॥ उप्ता दिनमुखे चूतकदल्याद्याः फलद्रुमाः। दिवान्तेऽपि फलन्ति स्स, प्रारम्भा महतामिव ॥ ४३६ ॥ धान्यशाकफलान्येतान्यभुक्त मुदितो जनः । उद्यानकेलिगतवन्नाबुद्ध कटकश्रमम् ॥ ४३७ ॥ चर्मरत्नच्छत्ररत्नमध्ये मध्यजगत्पतिः । प्रासादस्थ इव स्वस्थोऽवतस्थे सपरिच्छेदः ॥ ४३८ ॥ सप्ताऽभृवन्नहोरात्राण्यश्रान्तं तत्र वर्षताम् । तेषां नागकुमाराणां, तदा कल्पान्तकालवत् ॥ ४३९॥ पापाः केऽमी ममेदृक्षोपसर्ग कर्तुमुद्यताः । इति भावं नरेन्द्रस्य, विदित्वाऽथ महौजसः॥४४॥ सदा सन्निहिता यक्षास्ते सहस्राणि षोडश । सन्नद्धा बद्धतूणीरा, अधिज्यीकृतकार्मुकाः॥ ४४१॥ दिर्धक्षव इव क्रोधानलेन परितः परान् । एत्य मेघमुखान् नागकुमारानेवमब्रुवन् ॥ ४४२॥ अरे वराकाः! किं यूयं, हन्त ! निश्चेतना इव । न जानीथ महीनाथं, चक्रिणं भरतेश्वरम् ॥ ४४३॥ विश्वाजय्ये नृपेऽमुष्मिन्नारम्भो वोऽयमापदे । महाशिलोच्चये दन्तप्रहारो दन्तिनामिव ॥ ४४४॥ एवं सत्यप्यपयात, त्वरितं मत्कुणा इव । अदृष्टपूर्वो भावी वोऽपमृत्यु ढमन्यथा ॥ ४४५॥ __ इत्याकाऽऽकुला मेघबलं मेघमुखाः सुराः । संजहुरिन्द्रजालज्ञा, इन्द्रजालमिव क्षणात् ॥ ४४६ ॥ ययुः किरातांस्ते मेघमुखास्तच्चाऽऽचचक्षिरे। भरतं शरणं गत्वाऽऽश्रयध्वमिति चाऽऽदिशन् ॥४४७॥ ततस्तद्वचनान्म्लेच्छा, भग्नेच्छा भरतेश्वरम् । शरण्यं शरणायेयुरनन्यशरणास्तदा ॥ ४४८॥ १ कूष्माण्ड: "कोलु" इति भाषायाम् । २ सैन्यश्रमम् । ३ सपरिवारः । ४ दग्धुमिच्छवः । * °च्छास्ते भीता भ° सं 20 Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy