SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका प्रथमं पर्व चतुर्थः सर्गः पुरुषचरिते ॥१०५॥ ऋषभजिन| भरतचक्रिचरितम् । ते तस्थुरुपरि मापस्कन्धावारस्य तत्क्षणम् । चूर्णनाय तत्प्रमाणोद्यतवज्रशिलोपमाः ॥ ४२१॥ अयोग्रेरिव नाराचैरिव दण्डैरिवाऽथ ते । धाराभिरम्भसां तत्र, प्रावर्त्तन्त प्रवर्षितुम् ॥ ४२२ ॥ मेघाम्भसा पूर्यमाणे, समन्तादपि भूतले । अनाव्यन्त स्थास्तत्राऽनकायन्त गजादयः ॥ ४२३ ।। क्वाऽप्यगच्छदिवाऽऽदित्यः, प्रणेशुरिव पर्वताः । तेन मेघान्धकारेण, स्फूर्जता कालरात्रिवत् ॥ ४२४ ॥ एकान्धकारता चैकजलभावश्च भूतले । तदानीं युगपद् युग्मधर्माविव बभूवतुः ॥ ४२५ ॥ __अरिष्टवृष्टिमुत्कृष्टां, प्रेक्ष्य तां चक्रवर्त्यपि । चर्मरत्रं स्वहस्तेन, प्रियभृत्यमिवाऽस्पृशत ॥४२६॥ स्पृष्टं तच्चक्रिहस्तेन, चर्मरत्नमवर्द्धत । योजनानि द्वादशोदवनेनेव वारिदः॥ ४२७ ॥ तस्मिन् जलस्योपरिस्थे, घनाब्धेरिव भृतले । चर्मरत्ने समारुह्य, तस्थौ राजा ससैनिकः ॥ ४२८ ॥ मण्डितं नवनवत्या, सहौतिचारुभिः । चामीकरशलांकाभिः, क्षीराब्धिमिव विद्रुमैः ॥ ४२९ ॥ व्रणग्रन्थिविहीनेन, सरलत्वैकशालिना । नालेन नलिनमिव, स्वर्णदण्डेन शोभितम् ॥ ४३०॥ तोयातपमरुद्रेणुत्राणक्षममिलापतिः । पस्पर्श पाणिना छत्रं, चर्मवद् ववृधे च तत् ॥ ४३१॥ [त्रिभिर्विशेषकम् ] छत्रदण्डस्योपरि च, ध्वान्तध्वंसकृते नृपः । तेजसाऽतिनभोरनं, मणिरत्नं न्यवेशयत् ॥ ४३२ ॥ तरदण्डमिवाऽराजत् , सम्पुटं च्छत्रचर्मणोः । ततः प्रभृति लोकेऽभूद् , ब्रह्माण्डमिति कल्पना ॥ ४३३॥ लोहाः । २ नौवदाचरणमकुर्वत । ३ नक्रवदाचरणमकुर्वत । ४ उत्तरपवनेन । * • पैश्चारुरोचिषाम् सं १ खं ॥ It°लाकानां, सं १ खं ॥ ५ प्रवालैः। ६ अन्धकारनाशार्थम् । ७ अतिक्रान्तसूर्यम् । भरतस्य दिग्विजयः। ॥१०५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy