SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ खमप्यसंस्तुतमिव, प्रत्यक्षन्त न केचन । आत्मप्राणान् गृहीत्वा तु, ययुर्लेच्छा दिशोदिशम् ॥ ४०६॥ पर्यस्तास्ते सुषेणेनाऽम्भःपूरेण द्रुमा इव । निःस्थामानो योजनानि, भूयांसि व्यपचक्रमुः ॥४०७॥ ते वायसा इवैकत्र, सम्भूयाऽऽलोच्य च क्षणम् । आतुरा मातरमिव, ययुः सिन्धुं महानदीम्।।४०८॥ तस्याश्च सैकते कृत्वा, संस्तरान् सिकतोत्करैः । ते सम्भूयोपविविशुरपनानोद्यता इव ॥ ४०९ ॥ नग्ना उत्तानका मेघमुखान् खकुलदेवताः । चित्ते नागकुमारांस्ते, कृत्वाऽष्टमतपो व्यधुः ॥ ४१०॥ तदष्टमतपःप्रान्ते, चक्रितेजोभयादिव । तेषां नागकुमाराणामासनानि चकम्पिरे ॥ ४११॥ ते दृष्ट्वाऽवधिना तांस्तु, म्लेच्छानास्तिथास्थितान् । अर्त्या पितृवदभ्येत्य, प्रादुरासंस्तदग्रतः ॥ ४१२ ॥ ब्रूत भो! भवतामर्थः, कोऽधुना मनसीप्सितः? । अन्तरिक्षस्थिता एवं, ते किरातान् बभाषिरे ॥४१३।। दृष्ट्वा मेघमुखान्नागकुमारानभसि स्थितान् । तेऽवननञ्जलीन् भालेष्वत्यन्तषिता इव ॥ ४१४ ॥ अमद्देशमनाक्रान्तपूर्व कोऽप्यागतोऽधुना । यथा स गच्छति तथा, कुरुतेत्यूचिरे च ते ॥ ४१५॥ ऊचुर्मेघमुखाश्चैवं, भरतश्चक्रवर्त्ययम् । देवासुरनरेन्द्राणामप्यजय्यो महेन्द्रवत् ॥ ४१६ ॥ मन्त्रतत्रविषास्त्राग्निविद्यादीनामगोचरः । गिरिग्रोवेव टङ्कानां, चक्रवर्ती महीतले ॥ ४१७ ॥ युष्माकमनुरोधेन, वयमस्य तथाऽपि हि । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ॥ ४१८ ॥ अम्भोधय इवोत्पत्य, भुवोऽम्भोदा नभस्तलम् । व्याप्नुवन्तोऽञ्जनश्यामरुचः सञ्जज्ञिरे क्षणात् ॥४१९॥ तेऽतर्जयन्निव तडितजेन्या चक्रभृच्चमूम् । ऊर्जितैगर्जितरवैश्वाऽऽचुक्रुशुरिवाऽसकृत् ॥ ४२० ।। अपरिचितम् । २ निर्बलाः। ३ मृतस्नाने उद्यता इव । ४ पूर्वमनाक्रान्तम् । ५ गिरिपाषाणः । ६ पाषाणभेदनास्त्राणाम् । ७ विद्युद्रूपतर्जन्यङ्गुल्या। Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy