________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१०४॥
Jain Education Inter
कर्दमोदकपाषाणशर्करागर्त्तदुःपमात् । महास्थलीगिरिदरीदुर्गाश्चोत्तारणक्षमम् ॥ ३९३ ॥ ईषद्भूलग्नपादत्वात्, सञ्चरन्तमिवाऽम्बरे । मेधाविनं विनीतं च पञ्चधाराजितश्रमम् ॥ ३९४ ॥ कमलामोदनिःश्वासं, कमलापीडमाख्यया । साक्षाज्जयमिवाऽऽरोहद्, वाजिराजं चमूपतिः ॥ ३९५ ॥ [ चतुर्दशभिः कुलकम् ] पञ्चाशदङ्गुलं दैर्घ्य, विस्तारे षोडशाङ्गुलम् । अर्द्धाङ्गुलं च बाहल्ये, स्वर्णरत्नमयत्संरु ।। ३९६ ॥ अपास्तकोशं निर्मुक्तनिर्मोकमिव पन्नगम् । तीक्ष्णधारमतिदृढं, द्वैतीयीकमिवाऽशनिम् ।। ३९७ ॥ विचित्रपुष्करश्रेणिव्यक्तवर्णविराजितम् । खड्गरलं स जग्राह द्विषां पत्रमिवाऽन्तकः ॥ ३९८ ॥
[ त्रिभिर्विशेषकम् ]
जातपक्ष इवाहीन्द्रः सन्नद्ध इव केसरी । बभूव खड्गरलेन, स तेन पृतनापतिः ।। ३९९ ।। तडिद्दण्ड इवाssकाशे, तरलं भ्रमयन्नसिम् । वाजिनं प्रेरयामास, सांयुगीनं चमूपतिः ॥ ४०० ॥ जलकान्तो जलमिव, स्फाटयन् विद्विषद्धलम् । विवेश वाजिना तेन, सुषेणः समराङ्गणम् ॥। ४०१ ॥ सुषेणे निघ्नति सुर्द्विषः केऽपि मृगा इव । नेत्रे निमील्य केऽप्यस्थुः पतित्वा शशका इव ॥ ४०२ ॥ ऊर्द्धभूयाऽपरे तस्थुः खेदिता रोहिता इव । आरोहन् विषमस्थानं, केऽपि शाखामृगा इव ॥ ४०३ ॥ केषाञ्चित् पेतुरस्त्राणि, पत्राणीव महीरुहाम् । आतपत्राणि केषाञ्चिद्, यशांसीव समन्ततः ॥ ४०४ ॥ केषाञ्चित् तुरगास्तस्थुर्मन्त्रस्तब्धा इवोरगाः । केषाञ्चिदप्यभज्यन्त, स्यन्दना मृन्मया इव ॥ १ खड्गमुष्टिः । * चोदयामास सं २, आ. नोदयामास खंता ॥ २ रणकुशलम् ।
४०५ ॥
३ कपयः ।
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः
सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ॥
भरतस्य
दिग्विजयः ।
॥१०४॥
www.jainelibrary.org