SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अनाथामिव तां सेना, सेनानाथः पराजिताम् । पश्यन् सुषेणः कोपेनाऽनोदि राज्ञ इवाऽऽज्ञया ॥३७८॥ आताम्रनयनस्ताम्रवदनः स क्षणादभृत् । दुरीक्षो नररूपेण, वैश्वानर इव स्वयम् ॥ ३७९ ॥ रक्षोराज इवाऽशेषान् , ग्रसितुं परसैनिकान् । स्वयं संवर्मयामास, सुषेणः पृतनापतिः॥ ३८॥ उत्साहोच्छुसदङ्गत्वादतिगाढत्वमागतम् । सौवर्ण वर्म सेनान्यस्त्वगन्तरमिवाऽशुभत् ॥ ३८१॥ अशीत्यङ्गुलमुच्छ्रेित्यामेकन्युनशताङ्गुलम् । परिणाहे दैर्ये पुनरष्टोत्तरशताङ्गुलम् ॥ ३८२ ॥ द्वात्रिंशदङ्गुलोत्सेधं, सततोन्नतमौलिकम् । चतुरङ्गुलकर्ण च, विंशत्यङ्गुलबाहुकम् ॥ ३८३ ॥ षोडशाङ्गुलजङ्घाकं, चतुरङ्गुलजानुकम् । चतुरङ्गुलोच्चखुरं, वृत्तं वलितमध्यकम् ॥ ३८४॥ विशालसङ्गतनतप्रसन्नपृष्ठशालिनम् । दुकूलतन्तुभिरिव, कोमलैर्लोमभिर्युतम् ॥ ३८५॥ प्रशस्तद्वादशावर्त, शुद्धलक्षणलक्षितम् । सुजातयौवनप्राप्तशुकपिच्छहरिच्छविम् ॥ ३८६ ॥ कशानिपातरहितं, सादिचित्तानुगामिनम् । रत्नस्वर्णवल्गाव्याजाद् , दोभ्यां श्लिष्टमिव श्रिया ॥३८७ ॥ काञ्चनैः किङ्किणीजालैः, क्वणद्भिर्मधुरस्वरम् । अन्तर्ध्वनन्मधुकराम्भोजस्रग्भिरिवार्चितम् ॥ ३८८॥ पञ्चवर्णमणीमिश्रस्वर्णालङ्करणांशुभिः । रूपाद्वैतपताकाङ्कमिव बिभ्राणमाननम् ॥३८९ ॥ काञ्चनाम्भोजतिलक, भौमाङ्कितमिवाऽम्बरम् । चामरोसनिभतोऽन्यौ कर्णाविव विभ्रतम् ॥ ३९० ॥ वज्रिणो वाहनमिवाऽऽकृष्टं पुण्येन चक्रिणः । मुञ्चन्तं चरणौ वक्रो, पतन्तौ लालकादिव ॥ ३९१ ॥ सुपर्णमन्यमृयैव, मूर्तिमन्तमिवाऽनिलम् । क्षणेन योजनशतोल्लङ्घने दृष्टविक्रमम् ॥ ३९२ ॥ १ अग्निः । २ औनत्ये। ३ विशालतायाम्। * किङ्कणी खंता ।। Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy