SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तुम्बीफलमिवैकस्यामुन्मजति शिलापि हि । शिलेव तुम्बीफलमप्यन्यस्यां तु निमज्जति ॥ ३१८ ॥ तमिस्रायाः पूर्वभित्तेर्निर्गते ते तु गच्छतः । भित्तेः प्रतीच्या मध्येन, सिन्धौ सङ्गममानतः ॥ ३१९ ॥ बबन्ध बर्द्धकिः पद्यामनवद्यां ततस्तयोः । वैताब्याद्रिकुमारस्य, रहाशय्यामिवाऽऽयताम् ॥ ३२०॥ पद्या क्षणेन सा जज्ञे, चक्रभृवर्द्धकेः खलु । गेहाकारद्रुमेभ्यो हि, कालक्षेपो न वास्तुनः ॥ ३२१ ॥ भूयोभिरपि पाषाणैः, कृता सुश्लिष्टसन्धिभिः। रेजे तावत्प्रमाणैकपाषाणघटितेव सा ॥ ३२२ ॥ सा पाणिवत् समतला, वज्रवच्च द्रढीयसी । गुहाद्वारकपाटाभ्यामिवाऽलक्ष्यत निर्मिता ॥ ३२३ ॥ ससैन्योऽपि सुखेनैव, निम्नगे दुस्तरे अपि । समर्थः पदविधिवच्चक्रवर्ग्युत्ततार ते ॥ ३२४॥ गुहाया उत्तरं द्वारमुत्तराशामुखोपमम् । सह चम्बा क्रमाद् गच्छन्नासदन्मेदिनीपतिः॥३२५ ॥ आकर्ष्याघातनिर्घोष, याम्यद्वारकपाटयोः । भीताविवोजघटाते, तत्कपाटौ स्वयं क्षणात् ॥ ३२६ ॥ तदा विघटमानौ तौ, सरत्सरितिशब्दतः । सरणप्रेरणमिव, चक्रिसैन्यस्य चक्रतुः ॥ ३२७॥ गुहायाः पार्थभित्तिभ्यां, तथा संश्लिष्य संस्थितौ । अलक्ष्येतां यथा तत्राऽभूतपूर्वाविवारी ॥३२८ ॥ ___ अथ प्रथमतश्चक्रं, पुरोगं चक्रवर्तिनः । निर्जगाम गुहामध्यादभ्रमध्यादिवाय॑मा ॥ ३२९ ॥ महीयसा महीनाथो, गुहाद्वारेण तेन च । बलीन्द्र इव पातालविवरण विनिर्ययो । ३३०॥ तस्या गुहाया निःशङ्कलीलागमनशालिनः । निर्ययुर्दन्तिनो विन्ध्यसानुमद्गह्वरादिव ॥ ३३१ ॥ गुहातो वल्गु वल्गन्तो, निर्गच्छन्ति स्म वाजिनः । अम्भोधिमध्यनिर्गच्छदवाजिविडम्बिनः ॥ ३३२॥ १ एतदाण्यकल्पवृक्षेभ्यः। २ कपाटौ । Jain Education Intern For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy