SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥१०॥ चतुरङ्गचमूचक्रयुक्तश्चक्रानुगस्ततः । प्रविवेश गुहाद्वारं, केसरीव नृकेसरी ॥ ३०४ ॥ अष्टसुवर्णप्रमाणं, पद्तलं द्वादशास्रिकम् । समतलं मानोन्मानप्रमाणयोगसंयुतम् ॥३०५॥ सर्वदाधिष्ठितं यक्षसहस्रेणाऽष्टकर्णिकम् । योजनानि द्वादशाऽन्धकारन्यकारकारणम् ॥ ३०६ ॥ अधिकरणीसंस्थानं, सूर्यचन्द्रानलप्रभम् । नृपतिः काकिणीरत्नं, चतुरङ्गुलमाददे ॥३०७॥ [त्रिभिर्विशेषकम् ] गोमूत्रिकाक्रमात् तेन, स गुहापार्श्वयोर्द्वयोः । योजनान्ते योजनान्ते, मण्डलान्यालिखन् ययौ ॥३०८॥ धनुःपञ्चशतायामान्येकैकमेकयोजनम् । उयोतकारीण्येकोनपश्चाशत् तानि जज्ञिरे ॥३०९॥ तावत् स्थायीनि तान्यासन् , गुहा चोद्घाटितानना । यावज्जीवति कल्याणी, चक्रवर्ती महीतले ॥३१॥ मण्डलानां प्रकाशेन, तेनाऽप्रस्खलिता चमूः । सञ्चचार सुखं चक्ररत्नानुगनृपानुगा ॥३११॥ सा गुहा सञ्चरन्तीभिश्चमूमिश्चक्रवर्तिनः । असुरादिवलै रत्नप्रभामध्यमिवाऽऽबभौ ॥३१२॥ अन्तः सञ्चरता तेन, चमृचक्रेण सा गुहा । आसीदुद्दामनि?षा, मन्थानेनेव मन्थनी ॥ ३१३॥ रथैः सीमन्तितः सद्योऽश्वखुरैः क्षुण्णकर्करः । जज्ञे पुरीपथ इव, स खिलोऽपि गुहापथः ॥ ३१४ ॥ अन्तःस्थितेन सा तेन, सेनालोकेन कन्दरा । तिरश्चीनत्वमापन्ना, लोकनालिरिवाऽभवत् ॥ ३१५ ॥ मध्यभागे तमिस्रायाः, संव्यानरसने इव । नृपः प्रापदयोन्मग्ना-निमग्ने नाम निम्नंगे ॥३१६ ॥ याम्योदग्भरतक्षेत्रार्द्धाभ्यामागच्छतां नृणाम् । आज्ञालेखे इव कृते, ते नदीछद्मतोद्रिणा ॥३१७ ॥ द्वादशकोणकम्। २ मन्थनघटी । ३ सञ्चाररहितोऽपि । ४ अधोवस्नमेखले। * 'नवस खंता ॥ ५ नद्यौ । ६ नदी मिषेण । भरतस्य दिग्विजयः। ॥१०१॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy