________________
तत्र चालोकयामास, कपाटौ प्राणमच्च सः। महान्तः शक्तिमन्तोऽपि, प्रथमं साम कुर्वते ॥ २९ ॥ वैताव्यसञ्चरद्विद्याधरस्त्रीस्तम्भनौषधम् । अष्टाहिकोत्सवं तत्र, स व्यधत्त महर्द्धिकम् ॥२९१॥ अखण्डैस्तन्दुलैरष्टमङ्गली मङ्गलावहाम् । मण्डलं मात्रिक इवाऽऽलिलेख पृतनापतिः ॥ २९२ ॥ वजं वज्रधरस्येव, चक्रिणो वैरिसूदनम् । दण्डरत्नमुपादत्त, स्वहस्तेन चम्पतिः ॥ २९३ ॥ आजिघांसुरपाक्रामत् , सप्ताष्टानि पदानि सः । मनागपसरत्येव, प्रजिहीर्षुर्गजोऽपि हि॥२९४ ॥ सेनानीस्तेन दण्डेन, त्रिः कपाटावताडयत् । उच्चस्तरां कन्दरां तामातोद्यमिव नादयन् ॥ २९५ ॥ वैताठ्यपृथिवीध्रस्य, विलोचनपुटे इव । बाढमुजघटाते ते, कपाटे वज्रनिर्मिते ॥ २९६ ॥ ततो विघटमानौ तौ, कपाटौ दण्डताडनात । तडत्तडिति कुर्वाणी, चक्रन्दतुरिवोच्चकैः ॥ २९७॥ उदग्भरतखण्डानां, जयप्रस्थानमङ्गलम् । कपाटोद्घाटनं राजे, सेनानाथो व्यजिज्ञपत् ॥ २९८ ॥ • हस्तिरत्नं समारूढः, प्ररूढप्रौढविक्रमः । अथाऽऽययौ तमिस्रायां, नरेन्द्रश्चन्द्रमा इव ॥ २९९ ॥ मृर्द्धस्थेन शिखाबन्धेनेव येन कदापि हि । उपसँर्गा न जायन्ते, तिर्यग्नरसुरोद्भवाः ॥३०॥ अन्धकारमिवाऽशेषं, येन दुःखं प्रणश्यति । शस्त्रघाता इव रुजः, प्रभवन्ति न येन च ॥३०१॥ नृपो यक्षसहस्रेणाधिष्ठितं चतुरङ्गलम् । उयोतक भास्करवन्मणिरत्नं तदाददे ॥ ३०२॥
[त्रिमिर्विशेषकम् ] दक्षिणे कुम्भिनः कुम्भस्थले सोरिनिषदनः । पूर्णकुम्भ इव स्वर्णपिधानं निदधे च तत् ॥ ३०३॥ * चालोकयाञ्चके खंता ॥ सेनापतिः । २ त्रिवारम् । ३ वैताब्यपर्वतस्य । ४ उपद्भवाः । °िन शेष प्र° खंता ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.