SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ शोभमानः सितच्छत्रचामरैः सोऽमरोपमः । वारणं प्रेरयामास, चरणाङ्गुष्ठसंज्ञया ॥ २६१॥ समं राज्ञोऽर्द्धसैन्येन, स गत्वा सिन्धुरोधसि । अस्थादुद्धृतरजसा, सेतुबन्धमिवादधत् ॥ २६२ ॥ योजनान्येधते स्पृष्टं, यच्च द्वादश यत्र च । प्रातरुतानि धान्यानि, निष्पद्यन्ते दिनात्यये ॥२६३ ॥ नंदीनदनदीनाथाम्भासु यत् तारणक्षमम् । तत् सम्पस्पर्श हस्तेन, चर्मरत्नं चमृपतिः॥२६४॥सन्दानितकम् नैसर्गिकप्रभावेन, प्रससार तटद्वयम् । तच्चर्मरत्नं प्रक्षिप्तं, सलिलोपरि तैलवत् ॥ २६५ ॥ संह चम्बा चमूनाथश्चर्मरत्नेन तेन सः । उत्तीर्य पद्ययेवाऽऽपदापायाः परं तटम् ॥ २६६ ॥ तं सिसाधयिषुः सर्व, सिन्धोदक्षिणनिष्कुटम् । कल्पान्तपाथोधिरिख, प्रससार चम्पतिः ॥ २६७ ॥ धनुर्निर्घोषवृत्कारदारुणो रणकौतुकी । लीलयैव पराजिग्ये, स सिंह इव सिंहलान् ॥ २६८ ॥ बर्बरानात्मसाच्चक्रे, मूल्यात्तानिव किङ्करान् । टङ्कणानङ्कयामास, राजाङ्केन हयानिव ॥ २६९ ॥ रत्नाकरमिवानीरं, रत्नमाणिक्यपूरितम् । अजयज्जवनद्वीप, नरद्वीपी स लीलया ॥ २७ ॥ तथा कालमुखास्तेन, जिग्यिरे ते यथाऽभवन् । अभुञ्जाना अपि मुखे, क्षिप्तपञ्चाङ्गुलीदलाः॥२७१॥ म्लेच्छा जोनकनामानस्तस्य प्रसरतः सतः । आसन् पराजुखा वायोरिव पादपपल्लवाः ॥ २७२ ॥ अपरा अपि वैताढ्यपर्वतोपत्यकास्थिताः । म्लेच्छजातीविजिग्ये सोहिजातीरिव वार्तिकः ॥ २७३ ॥ प्रौढप्रतापप्रसरः, प्रसरन्ननिवारितम् । आक्रामत् कच्छदेशोवी, सर्वा दिवमिवार्यमा ॥ २७४ ॥ १ नदीहूदसमुद्रजलेषु । * सचमूकश्च खंता ॥ २ नद्याः। ३ वशीचके। ४ नरव्याघ्रः। ५ पर्वतासबभूमिका स्थिताः। ६ गारुडिकः। ककककक SNESS Jain Education Interna l For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy